Enter your Email Address to subscribe to our newsletters



नवदिल्ली, 28 नवंबरमासः (हि.स)।
केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूषगोयलश्शुक्रवासरे अवदत् यत् भारतं सम्प्रति अमेरिका यूरोपीयसंघं ईयू च सहितं प्रायः पञ्चाशत् राष्ट्रैः अनेकैः व्यापारसहभागिभिः सह मुक्तव्यापारसहमतौ एफटीए विषयकं संवादमकरोत्।
केन्द्रीयवाणिज्य उद्योगमन्त्री नूतनदिल्ल्यां स्थिते भारतमण्डपम् इति स्थाने भारतीयवाणिज्य उद्योगमहासंघस्य फिक्की अष्टनवत्यां वार्षिकसामान्यसभायाम् भाषणं दत्वा एतदुक्तवान्। गोयलमहोदयः अवदत् यत् भारतं एतेभ्यः सहमतेः स्वविश्वसनीयं व्यापारसहभागिभिः सह सहकार्यं करोति।
सः प्रोक्तवान् यत् वयं सर्वे व्यापारस्य अस्त्रीकृतस्वभावं दृष्टवन्तः। विश्वसनीयसहभागिनां महत्त्वं च सर्वत्र अवलोकितम्।
तेन वक्तं यत् भारतं सम्प्रति विभिन्नैः राष्ट्रैः सुट्ठु च पञ्चाशत् राष्ट्रसमूहैः सह मुक्तव्यापारसहमतिषु संवादं करोत्।
केन्द्रीयमन्त्री अवदत् यत् भारतं ओमानदेशेन सह व्यापारसम्झौते विषये संवादं करोति। तथा बहरीन कतारदेशौ अपि वार्तायां सम्मिलितुमिच्छतः। खाडी सहयोगपरिषद् जीसीसी इति संस्था अपि चर्चायां प्रवृत्ता।
गोयलोऽवदत् यत् देशः आसियान् तथा कोरियादेशेन सह मुक्तव्यापारसम्झौतिनां एफटीए समीक्षां करोति येन तेषु सम्यग्सन्तुलनं स्थापयितुं शक्येत।
तेन उक्तं यत् वयं ईएईयू यूरेशियास्थितआर्थिकसंघेन सह अपि कार्यं कुर्मः यस्य सह संवादः ह्यः परह्यः वा आरब्धः।
मन्त्री अवदत् यत् वयं इज़राइलदेशेन सह अपि शीघ्रमेव संवादस्य आरम्भाय समानप्रतिबद्धाः। कनाडा भारतौ च व्यापकआर्थिकसहभागितासम्झौते सीईपीए विषये विचारं कुर्वन्ति। आगामिसप्ताहे तस्मिन् विषयि संवादारम्भः भविष्यति।
दक्षिणआफ्रीका सीमा शुल्कसंघः एसएसीयू तथा मर्कोसुरसमूहः दक्षिणअमेरिकायाः व्यापारसमूहः अपि संवादं कर्तुमिच्छतः।
फिक्की संस्थायाः अष्टनवत्याः वार्षिकसामान्यसभायाः वार्षिकअधिवेशनस्य च विषयः भारत आत्मनिर्भर आर्थिकमहाशक्तिः इति आसीत्। अस्मिन् अधिवेशने भारतमण्डपम् इति स्थले सभां संबोधयन् मन्त्री अवदत् यत् वयं न्यूज़ीलैंडदेशेन सह संवादं कुर्मः। वयं अमेरिका सप्तविंशतिराष्ट्रयुक्तेन यूरोपीयसंघेन सहापि सक्रियतया संवादम् कुर्मः।
पूर्वं फिक्की अध्यक्षेण हर्षवर्धन अग्रवालनाम्ना अष्टनवत्याः वार्षिकसामान्यसभायाः एजीएम इति प्रसंगे केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूषगोयलस्य ग्रीन प्रमाणपत्रेण स्वागतं कृतम्।
---------------
हिन्दुस्थान समाचार