एआई इत्यस्य उन्नत तकनीकी नूतनसंभावनाभिः सह महांतम् अवसरमपि ददाति- प्रो. भट्टः
नैनीतालम्, 29 नवंबरमासः (हि.स.)। कुमाऊविश्वविद्यालयस्य अतिथिव्याख्याता निदेशालयस्य इनोवेशन एंड इन्क्यूबेशन सेन्टरस्य च संयुक्ततत्त्वावधाने “युज ऑफ एआई टूल्स एंड फोर प्वाइन्ट शून्य फॉर इनोवेशन एंड इन्क्यूबेशन” इति विषयपरम् एकम् ऑनलाइन कार्यशाला आय
डीएसबी परिसर में व्याख्यान देने वाले प्रो. आशुतोष कुमार भट्ट।


नैनीतालम्, 29 नवंबरमासः (हि.स.)।

कुमाऊविश्वविद्यालयस्य अतिथिव्याख्याता निदेशालयस्य इनोवेशन एंड इन्क्यूबेशन सेन्टरस्य च संयुक्ततत्त्वावधाने “युज ऑफ एआई टूल्स एंड फोर प्वाइन्ट शून्य फॉर इनोवेशन एंड इन्क्यूबेशन” इति विषयपरम् एकम् ऑनलाइन कार्यशाला आयोजिताऽभवत। अस्मिन् कार्यशाले उत्तराखण्डमुक्तविश्वविद्यालयस्य स्कूल ऑफ वोकेशनल एजुकेशन इति विभागस्य निदेशकः प्रो आशुतोषकुमारभट्टः मुख्यवक्तारूपेण भाषमाणः अवदत् यत् कृत्रिमबुद्धिः इदानीं स्वास्थ्ये विधौ उद्योगे संचारक्षेत्रे च शीघ्रं परिवर्तनानि जनयति।

गूगलनामकसंस्थया रेटिना विश्लेषणे कृत्रिमबुद्धेः उपयोगः यः कृतः एवं च आयबीएम इति संस्थायाः कृत्रिमबुद्धियुक्तः वकीलः “रॉस” इति उदाहरणानी दत्वा तेन उन्नततन्त्रज्ञानस्य नवीनाः सम्भावनाः महदवसराः च प्रदानाः इति निरूपितम्। चालकविहीनयानानां उपयोगः डिजिटलसहायकेषु कृत्रिमबुद्धेः उपयोगः वस्तुपरिचये मौसमपूर्वानुमाने च औद्योगिकक्रान्तेः चतुर्थसोपानस्य महत्त्वं तेन प्रकाशितम्।

गूगलकोलैब जेनेरेटिवकृत्रिमबुद्धिः नोटबुक एलएलएम चौटजीपीटी प्रेजी इत्यादीनि उपयोगी कृत्रिमबुद्धिसाधनानि अनुसंधानशिक्षणयोः कार्येषु प्रभावी इति तेन उक्तम्। अस्मिन् समये कृत्रिमबुद्धेः उत्तरदायित्वपूर्णोपयोगस्य दुरुपयोगपरिहरणस्य च आवश्यकतायाम् अपि चर्चा अभवत। आयोजनकार्ये प्रो आशीषतिवारी डाक्टरललिततिवारी च उल्लेखनीयं योगदानं दत्तवन्तौ।

हिन्दुस्थान समाचार