छत्तीसगढ़कांग्रेसस्य नवनियुक्तजनपदाध्यक्षानां सूची प्रकाशिताऽस्ति
रायपुरम्, 29 नवम्बरमासः (हि.स.)। द्विदिवसीय प्रवासानन्तरं प्रदेशप्रभारी सचिनपायलटः शुक्रवारम् आगत्य तत्क्षणमेव कांग्रेसपक्षस्य नवनियुक्तजनपदाध्यक्षानां सूची गतरात्रौ प्रकाशिता।कांग्रेसपक्षेन प्रदेशे संगठनात्मकं पुनर्गठनं कृत्वा, शीर्षनेतृत्वेन रायप
छत्तीसगढ़ कांग्रेस के नए नियुक्त जिलाध्यक्षों की सूची


छत्तीसगढ़ कांग्रेस के नए नियुक्त जिलाध्यक्षों की सूची


रायपुरम्, 29 नवम्बरमासः (हि.स.)। द्विदिवसीय प्रवासानन्तरं प्रदेशप्रभारी सचिनपायलटः शुक्रवारम् आगत्य तत्क्षणमेव कांग्रेसपक्षस्य नवनियुक्तजनपदाध्यक्षानां सूची गतरात्रौ प्रकाशिता।कांग्रेसपक्षेन प्रदेशे संगठनात्मकं पुनर्गठनं कृत्वा, शीर्षनेतृत्वेन रायपुरं सहितं पञ्चविंशतिः जनपदाध्यक्षाः परिवर्तिताः, षोडश वर्तमानजनपदाध्यक्षाः तु पदेषु स्थापिता एव।

विदितं यत् प्रदेशस्य सर्वेषु जनपदेषु नूतनाध्यक्षनियुक्तये “संगठनसृजनाभियान” नामकं अभियानं प्रवर्तितम्। ए.आइ.सी.सी. इत्यनेन सर्वेषु जनपदेषु सप्तदश (17) निरीक्षकाः नियुक्ताः आसन्, ये न केवलं अभ्यर्थिभिः सह वन–टू–वन इति चर्चा कृतवन्तः, अपि तु सामाजिकसंस्थाभ्यः, व्यापारिभ्यः, पत्रकारिभ्यश्च अभिप्रायान् गृहित्वा षट्–षट् नामानां समितिः अपि सज्जीकृतवन्तः।सूचिप्रकाशनानन्तरं नूतननियुक्तपदाधिकारीभिः संगठनस्य प्रति निष्ठां प्रदर्शिता, तथा च उक्तं यत् ते पक्षस्य नीतयः जन-जनं प्रति शीघ्रतरं प्रेषयिष्यन्ति।

पक्षाधिकारिणां वदनेन ज्ञायते यत् जनपदाध्यक्षनियुक्तौ प्रदेशकांग्रेससमितेः वरिष्ठनेतृणां सहभागः न्यूनः आसीत्। शीर्षनेतृत्वेन न दलभेदः आधारे, न वरिष्ठताधारे, अपि तु जनप्रियता तथा भूमिस्थसंगठनशक्तेः आधारे जनपदाध्यक्षाः नियुक्ताः इति।

हिन्दुस्थान समाचार / अंशु गुप्ता