Enter your Email Address to subscribe to our newsletters

नवदेहली, 29 नवंबरमासः (हि.स.)। निर्वाचनायोगेन सर्वान् नागरिकान् प्रति “ECI-Net” इति नामकं अनुप्रयोगं डाउनलोड् कर्तुं तथा च तस्य अनुप्रयोगस्य ‘सुझाव जमा करें’ इति ट्याब्-उपयोगेन अनुप्रयोगस्य उत्कृष्टतां वर्धयितुं सुझावान् आमन्त्रिताः। एतत् 27 नवम्बरात् 27 दिसम्बरपर्यन्तं कर्तुं शक्यते।
ECI-Net अनुप्रयोगस्य परीक्षण-संस्करणस्य उपयोगः 2025 तमस्य बिहार-विधानसभानिर्वाचनकाले तथा अद्यतन-उपनिर्वाचनक्रमेषु कृतः। अस्य नवस्य मंचस्य प्रयोगे उत्कृष्ठमतदाता-सेवाः, मतप्रदर्शन-प्रतिशतस्य प्रवृत्तीनां शीघ्रलाभः तथा मतदानस्य समाप्तेः 72 होराभ्यन्तरे अनुक्रमणिका-कार्डानां प्रकाशनम् अपि साधितम्।मञ्चस्य कार्यक्षमतां वर्धयितुं बिहार-निर्वाचनानां अनुभवगत-शिक्षां च मुख्य-निर्वाचनाधिकृत (CEO), जिलानिर्वाचनाधिकारी (DEO), निर्वाचन-नामावली-अधिकारी (ERO), निरीक्षकाः तथा क्षेत्रीय-अधिकाऱ्यः इत्येभ्यः प्राप्ता प्रतिकृतिः अपि सम्मिल्यते। उपयोजकानां सुझावाः परीक्ष्यन्ते, मञ्चं च अधिकं उपयोगकर्तृ-सुलभं करणाय नवतया अद्यतनं भविष्यति।
ECI-Net मंचस्य आधिकारिकं शुभारम्भः 2026 जनवरी-मासे करणीयः इति योजना अस्ति। मतदातृ-सुविधायाः वृद्धिः तथा प्रौद्योगिकी-उपयोगेन निर्वाचन-प्रक्रियासु पारदर्शितायाः अभिवर्धनम् अस्य मुख्यः प्रयोजनम्। ECI-Net, मुख्यनिर्वाचनायुक्तस्य ज्ञानेश-कुमारस्य नेतृत्वे, निर्वाचनायुक्त-डॉ. सुखबीरसिंह-सन्धू तथा डॉ. विवेक-जोशी इत्येताभ्यां सह आयोगस्य प्रमुखेषु उपक्रमेषु अस्ति।
विशेषतया वक्तव्यम्—ECI-Net अनुप्रयोगः नागरिकानां कृते एकः एकीकृतः, समेकः अनुप्रयोगः अस्ति, यः पूर्वं विद्यमानान् 40 पृथक् निर्वाचन-संबद्धान् अनुप्रयोगान्/जालपुटान्—यथा Voter Helpline App (VHA), cVIGIL, SAKSHAM, Polling Trends (Voter Turnout App), Know Your Candidate (KYC) इत्यादीन्—एकस्मिन् अन्तःमुखे (interface) संयोजयति। अनुप्रयोगं गुगल प्स्टोर तथा अपल एप स्टोर इभ्यां डाउनलोड् कर्तुं शक्यते।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता