शांतिकुंजे आयोजितं निःशुल्क स्वास्थ्य शिविरम्
हरिद्वारम्, 29 नवंबरमासः (हि.स.)।शान्तिकुञ्जे स्थित जन्मशताब्दी-चिकित्सालये आयोजितः द्विदिवसीयः निःशुल्क-चिकित्सा-शिविरः अद्य समापितः। अस्मिन् शिविरे गुरुग्राम-नगरस्थ मेदान्त-आस्पतलस्य विशेषज्ञ-चिकित्सकाः तथा शान्तिकुञ्जस्य वरिष्ठ-वैद्याः संयुक्तरू
शांतिकुंज में निशुल्क स्वास्थ्य शिविर


हरिद्वारम्, 29 नवंबरमासः (हि.स.)।शान्तिकुञ्जे स्थित जन्मशताब्दी-चिकित्सालये आयोजितः द्विदिवसीयः निःशुल्क-चिकित्सा-शिविरः अद्य समापितः। अस्मिन् शिविरे गुरुग्राम-नगरस्थ मेदान्त-आस्पतलस्य विशेषज्ञ-चिकित्सकाः तथा शान्तिकुञ्जस्य वरिष्ठ-वैद्याः संयुक्तरूपेण द्विशताधिकान् रोगिनः परीक्षणं चिकित्सा च प्रदत्तवन्तः।

शिविरकाले हृदय-रोग, अस्थि-जोड्-समस्या, मधुमेहः, वृक्क-संबन्धितविकाराः, सामान्यरोगाः तथा अन्य-विविध-स्वास्थ्यपरीक्षणार्थं बहवः जनाः आगतवन्तः। रोगिणेभ्यः आवश्यकाः निदान-परीक्षणाः, स्वास्थ्य-परामर्शः, औषधयः च सर्वथा निःशुल्कं प्रदत्ताः।

शिविर-व्यवस्थापनं कुर्वन् व्यवस्थापकः श्री-योगेन्द्रगिरिः अवदत्—“शान्तिकुञ्जः सदा समाजहित-सेवायाम् प्रतिबद्धः। स्वास्थ्य-शिविरः तस्यैव भावनायाः विस्तारः, येन अधिकाधिकाः जनाः लाबं प्राप्नुइयुः।”

जन्मशताब्दी-चिकित्सालयस्य प्रभारी डा. मञ्जू-चोपदार अवदत्—“शिविरस्य उद्देश्यः ताः विशेषज्ञ-चिकित्सा-सेवाः तेषां जनानां समीपं नयितुं यासां उच्चस्तरीया स्वास्थ्यसुविधाः सहजतया उपलब्धाः न भवन्ति।”

शिविरे मेदान्त-आस्पतलस्य हृदयरोग-विशेषज्ञः डा. हिमांशु-पूनीयाः, जनरल्-फिजिशियनः डा. रमेशचन्द्रः तथा तयोः चिकित्सा-दलं सेवां प्रदत्तवत्।

हिन्दुस्थान समाचार