राजकीय आईटीआई इत्यत्र 9 तः10 दिसंबर यावत् काशीसांसदरोजगारमहाकुंभः
वाराणसी, 29 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः संसदीयराज्ये वाराणस्यां करोण्डिस्थिते औद्योगिकप्रशिक्षणसंस्थाने (राजकीय-आईटीआई) आगामिदिनेभ्यः नवमे दशमे च डिसेम्बरमासस्य काशीसांसद्-रोजगारमहाकुम्भः 2025 इत्यस्य आयोजनं भविष्यति। अस्
रोजगार महाकुंभ


वाराणसी, 29 नवंबरमासः (हि.स.)।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः संसदीयराज्ये वाराणस्यां करोण्डिस्थिते औद्योगिकप्रशिक्षणसंस्थाने (राजकीय-आईटीआई) आगामिदिनेभ्यः नवमे दशमे च डिसेम्बरमासस्य काशीसांसद्-रोजगारमहाकुम्भः 2025 इत्यस्य आयोजनं भविष्यति। अस्य आयोजनस्य संचालनं जिलाप्रशासनम् करिष्यति; आयोजकमण्डले एस्बिआइ, स्मार्टसिटी, स्वच्छभारत-अभियानम्, नगरनिगम इत्यादीनि संस्थानानि सम्मिलितानि भविष्यन्ति।

विधायकः सौरभः श्रीवास्तवः शनिवासरे अस्मिन् विषयि जानकारीम् अदात्। तेन अवोचि यत् अस्य विधानसभा-क्षेत्रस्य युवकेभ्यः एषः महानवसरः यत् काशीसांसदरोजगारमहाकुम्भे निःशुल्कं भागग्रहणं कृत्वा रोजगारलाभस्य अवसरं प्राप्तुं शक्नुवन्ति।

काशी हिन्दू-विश्वविद्यालयस्य हैदराबादद्वारस्य समीपे स्थिते राजकीय-आईटीआई-प्राङ्गणे प्रातःकाले एव विविधकम्पनीनां प्रतिनिधयः अस्मिन् आयोजनं प्रति आगमिष्यन्ति।

---------------

हिन्दुस्थान समाचार