जिला स्तरीय खेलकूदस्पर्धायां युवानः अयच्छन् व्यशनमुक्तिसंदेशम्
चंपावतम्, 29 नवंबरमासः (हि.स.)। मायभारत-चम्पावतेन गोरल-चौड़ क्रीडाक्षेत्रे जिलास्तरीया क्रीड़ाक्रिया आयोजितासीत्। नशामुक्तभारत-अभियानं सुदृढीकर्तुं लक्ष्यीकृत्य आयोजितायां अस्मिन् प्रतियोगितायां 15–29 वर्षवयस्का युवानः उत्साहेन सहभागिनोऽभवन्। व्
जिला स्तरीय खेलकूद प्रतियोगिता


जिला स्तरीय खेलकूद प्रतियोगिता


चंपावतम्, 29 नवंबरमासः (हि.स.)।

मायभारत-चम्पावतेन गोरल-चौड़ क्रीडाक्षेत्रे जिलास्तरीया क्रीड़ाक्रिया आयोजितासीत्। नशामुक्तभारत-अभियानं सुदृढीकर्तुं लक्ष्यीकृत्य आयोजितायां अस्मिन् प्रतियोगितायां 15–29 वर्षवयस्का युवानः उत्साहेन सहभागिनोऽभवन्।

व्यक्तिगतस्पर्धासु

400-मीटरदौड़ (बालिका-वर्गे) सुनीता-महर प्रथमं, कञ्चन द्वितीयम्, ऊषा तृतीयम् स्थानम् अलभन्त।

800-मीटरदौड़ (बालक-वर्गे) नीरज-भट्ट प्रथमः, हिमांशु-नाथ द्वितीयः, राहुल तृतीयः अभवत्।

दीर्घ-उत्प्लवनम्बालक-वर्गे गौरवः प्रथमः, सन्दीपः द्वितीयः, सूरजः तृतीयः।

बालिका-वर्गे सोनी प्रथमम्, ऊषा-नायक द्वितीयम्, ज्योति-गोस्वामी तृतीयम्।

समूहस्पर्धासुरस्साकर्षणम् (बालक-वर्गे) चोमेल-बाराकोट-टीम विजेता, जीआईसी-चम्पावत उपविजेता।

खो-खो (बालिका-वर्गे) जीआईसी-चम्पावत विजेता, वल्सो-बाराकोट-टीम उपविजेता।

अस्मिन् कार्यक्रमे नगरपालिकाध्यक्षी प्रेमा-पाण्डेय मुख्यातिथिः, रेडक्रॉस-सोसाइटी-चम्पावत-अध्यक्षः राजेन्द्र-गहतोड़ी विशेषातिथिः आसन्। प्रशिक्षकौ मुकेश-टम्टा तथा चन्दन-बिष्ट प्रतियोगितासंचालने महत्त्वपूर्णं कार्यं कृतवन्तौ।

समापनसमये विजेतृभ्यः पदकाः, ट्रॉफी, प्रमाणपत्राणि दत्त्वा सम्माननं कृतम्। मुख्यातिथिः प्रेमा-पाण्डेय युवान् नशात् दूरं नेतुं, क्रीडां जीवनस्य अवयवं कर्तुं च प्रेरितवती। सा अवदत्—“नशा जीवनं नाशयति, क्रीडा तु अनुशासनं सम्मानं च दर्शयति।”

विशेषातिथिः राजेन्द्र-गहतोड़ी स्वास्थ्यमेव वास्तविकसंपत्तिमिति उक्तवान्। सः योगव्यायामाभ्यां मानसिकशारीरिकबलवृद्धेः महत्त्वम् अवोचत्।अवसरेऽस्मिन् जिलायुवाधिकारी मायभारत-आशीषपाल अवदत्—एषा प्रतियोगिता युवानां क्रीडाभावं, नेतृत्वक्षमता, अनुशासनं च वर्धयिष्यति तथा नशामुक्तभारत-सन्देशं सुदृढं करिष्यति।

हिन्दुस्थान समाचार