Enter your Email Address to subscribe to our newsletters


झाड़ग्रामः, 29 नवम्बरमासः (हि.स.)।
झाड़ग्राम-जिलायां सूचना-संस्कृति-विभागस्य आश्रये आयोजितायाः चतुर्दिवसीय रवीन्द्र-संगीत-प्रशिक्षण-कार्यशालायाः द्वितीये दिने शनिवासरे प्रशिक्षण-सत्रस्य आरम्भः अभवत्। अस्मिन् सत्रे कोलकाता-नगरस्य सुप्रसिद्धौ संगीत-कलाकारौ ऐतिह्य-रॉय तथा अनीतः दास इत्येतौ प्रतिभागिभ्यः रवीन्द्र-संगीतस्य सूक्ष्मताः अवगमयितवन्तौ।
प्रशिक्षणकाले कलाकाराभ्यां गुरुदेव-रवीन्द्रनाथ-ठाकुर-गीतानां शुद्ध-उच्चारणम्, स्वर-तालयोः सम्यक् अनुगमनम्, भाव-प्रदर्शनस्य विशिष्टाः पक्षाः च विशेषतया प्रतिपादिताः। उभौ प्रशिक्षकौ प्रतिभागिभ्यः गीत-प्रस्तुतये आवश्यकाः व्यवहारिक-तकनीकाः विस्तरेण प्रदर्शितवन्तौ।
कार्यशालायां उपस्थिताः दशाधिकाः प्रतिभागिनः उत्साहेन प्रशिक्षणं प्राप्नुवन्तः आसन्। विभागीय-अधिकृताः अवदन्—एषा कार्यशाला स्थानीयसंगीत-विद्यार्थिनां कलाकाराणां च कृते अत्यन्तं उपयोगी भविष्यति, तथा झाड़ग्राम-प्रदेशस्य सांस्कृतिक-चेष्टायाः विकासे नूतनदिशं दास्यति।
---------------
हिन्दुस्थान समाचार