Enter your Email Address to subscribe to our newsletters

धर्मशाला, 29 नवंबरमासः (हि.स.)।हिमाचलप्रदेशस्य राजस्वमन्त्री जगतसिंहनैगी इति व्यक्तिना राष्ट्रियस्वयंसेवकसङ्घं प्रति कृताया वक्तव्यस्य निमित्तं प्रदेशीयराजनीतिः उग्रतां प्राप्तवती। भारतीयजनतापक्षस्य प्रदेशप्रवक्त्रा संजयशर्मणा तद्वक्तव्यं निन्दनीयम् इति निर्दिश्य नैगी इति मन्त्री प्रति तीक्ष्णा टीका कृता। पक्षप्रवक्त्रा मन्त्री जगतसिंहनैगी इति व्यक्तेः मानसिकतां प्रति प्रश्नः कृतः तं च विकृतमानसिकतायुक्तपुरुषः इति अभिहितम्।
शनिवासरे जारीकृते प्रेसवक्तव्ये संजयशर्मा पृष्टवान् यत् यो मनुष्यः स्वयम् अपि काँग्रेसपक्षस्य विचारधारां सम्यक् न अवगच्छति सः कथं राष्ट्रीयस्वयंसेवकसङ्घ इति राष्ट्रव्यापिनम् संगठनम् अवगन्तुं समर्थः स्यात्। ते अवदन् यत् नैगिना कृतं वक्तव्यं तस्य नीचां हीनां च मानसिकतां प्रकाशयति।
संजयशर्मणा सङ्घस्य कार्याणां महत्त्वं निरूप्य इतिहासोऽपि उद्धृतः। ते अवदन् यत् राष्ट्रपिता महात्मागान्धिना अपि कदापि आरएसएस इत्यस्य कार्येषु आरोपाः न आरोपिताः अपितु सदा एव संघस्य राष्ट्रसेवाकार्याणां प्रशंसा एव कृता।
ते अवदन् यत् नैगी न स्वयम् संस्कारी न परिवाराय संस्कारान् दातुं समर्थः। अत एव तस्य कुटुम्बसम्बद्धाः विषयाः अपि सडकेषु चर्चाविषया भवन्ति। उक्तं च यत् सः न केवलं संघस्य अपि तु मातृशक्तेः अपि आदरं न करोति।
हिन्दुस्थान समाचार