मध्यप्रदेशः - विश्वन्यासे सांचीप्रदेशे शान्तिसमृद्ध्योः विश्वबंधुत्वस्य च समर्पितः महाबोधिमहोत्सवः अद्यारभ्य भविष्यति
- श्रीलंकायाः कलाकाराः लोकनृत्यम् एवं गायनस्य दास्यन्ति प्रस्तुतिम् रायसेनम्, 29 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य रायसेन-जिलस्य अन्तर्गतस्थिते यूनेस्को-विष्वन्यासे सांचीप्रदेशे मप्र-शासनस्य संस्कृति-विभागेन अद्य शनिवासरे आरभ्य कलासु बौद्धचिन्तनम्
सांची स्तूप (फाइल फोटो)


- श्रीलंकायाः कलाकाराः लोकनृत्यम् एवं गायनस्य दास्यन्ति प्रस्तुतिम्

रायसेनम्, 29 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य रायसेन-जिलस्य अन्तर्गतस्थिते यूनेस्को-विष्वन्यासे सांचीप्रदेशे मप्र-शासनस्य संस्कृति-विभागेन अद्य शनिवासरे आरभ्य कलासु बौद्धचिन्तनम् उपनिबद्ध्य द्विदिवसीयः महाबोधि-महोत्सवः भव्यरूपेण आयोजितः भवति। बुद्ध-जम्बूद्वीप-उद्याने (पूर्वं विश्रामभवनपरिसरे) सांच्यां आयोजितस्य अस्य महोत्सवस्य अन्तराष्ट्रियस्तरस्य अतिथयः कलाकाराश्च भागं ग्रहीष्यन्ति। अस्मिन् धार्मिक-उत्सवे श्रीलङ्का, जापान, थाईलैण्ड, वियतनामस्य च देशेभ्यः आगताः अनेकाः बौद्धानुयायिनः सहभागी भविष्यन्ति। रायसेन-जिलाप्रशासनस्य श्रीलङ्का-स्थित-महाबोधि-सोसायटी इत्यस्य च सहयोगेन प्रतिदिन सायं षड्वादशवेदने (6.30 PM) आरभ्य कार्यक्रमाः संयोजिताः भविष्यन्ति।

संस्कृति-विभागस्य सञ्चालकः एन॰पी॰ नामदेव इत्यनेन उक्तं यत् ज्ञानस्य सत्यस्य अहिंसाया मार्गेण जीवनं नेतुं, शान्तिं समृद्धिं विश्वबंधुत्वं च वक्तुं समर्पिते अस्मिन् महोत्सवे श्रीलङ्कादेशीयाः कलाकाराः लोकनृत्य-गायनयोः प्रस्तुतीः करिष्यन्ति। नृत्य-नाटिकाया माध्यमेन कलाकाराः भगवान्बुद्धस्य जीवनकथां तदादर्शांश्च रंगमंचे सजीवयिष्यन्ति। तेनोक्तं यत् अस्य महोत्सवस्य शुभारम्भः अद्य सायं षड्वादशवादने भविष्यति, यस्मिन् मुख्य-अतिथिरूपेण राज्यस्य संस्कृति-पर्यटन-मन्त्री धर्मेन्द्रसिंह-लोढी उपस्थिताः भविष्यन्ति। कार्यक्रमस्य अध्यक्षतां मत्स्य-कल्याण-मत्स्य-राज्यमन्त्री नारायणसिंह-पंवार करिष्यन्ति। विशेष-अतिथिरूपेण लोकस्वास्थ्यचिकित्साशिक्षा-राज्यमन्त्री नरेन्द्रशिवाजीपटेल, विधायकौ डॉ॰ प्रभुरामचौधरी, सुरेन्द्रपट्टवा च तथा जिलापरिषदाध्यक्षः यशवन्तसिंह उपस्थिताः भविष्यन्ति।

नामदेव-सञ्चालकेन उक्तं यत् महोत्सवस्य प्रथमदिने श्रीलङ्कायाः ललिता-गोमरा-सह दलस्य कलाकारैः श्रीलङ्कादेशीयं लोकनृत्यं गायनं च प्रस्तुत्य प्रदास्यते। अनन्तरं भोपाल-स्थित-पञ्चशील-सांस्कृतिक-मञ्चेन नृत्य-गायनयोः प्रस्तुतयः भविष्यन्ति। सायंकालीन-शीतल-वायौ भोपालस्य संघरत्ना बनकर-सहकर्मीभिश्च भगवान्बुद्धस्य जीवनकथायाः केन्द्रितां नृत्य-नाटिकां प्रस्तुत्य बुद्धस्य जीवनादर्शान् जनतायै सम्प्रेषयिष्यन्ति। भोपालस्य द साया बैंड इत्यस्य कलाकाराः भक्तिसंगीतम् प्रस्तुत्य श्रोतॄन् आह्लादयिष्यन्ति।

द्वितीयदिने — नवम्बर-मासस्य 30 तारेखायाम् — श्रीलङ्कायाः ललिता-गोमरा-सहकलाकारैः लोकनृत्य-गायनयोः माध्यमेन श्रीलङ्काया: सांस्कृतिक-धरोहरं मंचे आविर्भावयिष्यते। महोत्सवस्य अन्तिमसत्रम् अखिलभारतीय-कविसम्मेलनम् भविष्यति, यत्र सूर्यकुमार-पाण्डेय (लखनऊ), स्वयं-श्रीवास्तव (उन्नाव), सुमित-मिश्र (ओरछा), अभिसार-शुक्ल (दिल्ली), हिमांशी-बाबरा (मेरठ), मनु-वैशाली (दिल्ली), दीपक-शुक्ल (भोपाल), चेतन-चर्तित (इन्दौर) इत्यादयः कवयः काव्यपाठं करिष्यन्ति।

विदितं यत् सांची-स्तूपः केवलं स्थापत्यकलायाः महत्त्वेन प्रसिद्धः न, अपितु बौद्धधर्मस्य आध्यात्मिक-परम्परायाः गम्भीरं प्रतीकं भवति। अस्मिन् पवित्रस्थले भगवान्बुद्धस्य प्रियौ शिष्यौ सारिपुत्र-महामोद्गलायनौ इत्ययोः अस्थयः सुरक्षिताः सन्ति। एतेषां पवित्र-अस्थीनां दर्शनं श्रद्धालुभ्यः केवलं वर्षे एकवारं महाबोधि-महोत्सव-काले एव दत्तं भवति। अयं महोत्सवः नवम्बरमासस्य अन्तिमशनिवाररविवारयोः आयोजितः भवति। तस्मिन्नवसरे सांचीस्तूपपरिसरस्य मन्दिरस्य अधस्तन-भाण्डागारादस्य अस्थि-कलशौ बहिर्नीयेताम्। द्विदिनानि सूर्योदयात् सूर्यास्तपर्यन्तं जनाः तयोः दर्शनं कर्तुं शक्नुवन्ति। तस्मिन् समये सांच्यां आस्थाया: श्रद्धाया: च अद्भुतः संगमः दृश्यते। बौद्धधर्मानुयायिनां कृते अयं महान् धार्मिक-उत्सवः अस्ति। थाईलैण्ड्, श्रीलङ्का, भूटान्, वियतनाम्, मलेशिया, जापानदेशेभ्यः च सहस्रशः बौद्धश्रद्धालवः अत्र आगच्छन्ति।

एते अस्थिकलशाः सांचौ प्रथमवारम् 1952 तमे वर्षे स्थापिताः आसन्, यदा तदानीन्तनः प्रधानमन्त्रः पण्डितजवाहरलालनेहरु स्वयम् अत्र आगतः। तेन तस्मिन् काले अस्य आयोजनस्य आधारशिला स्थापिता आसीत् एकदिवसीय-मेलेन च आरम्भः कृतः। वर्षे 2010 तमे मप्र-सर्वकारेण एतत् उत्सवम् त्रिदिवसीयं कृतम्। परन्तु गत-चतुर्षु वर्षेषु अयम् उत्सवः द्विदिवसीयरूपेण सीमितः कृतः अस्ति।

सांची-स्तूपस्य गौरवशाली-इतिहासः।

सांच्याः एषा ऐतिहासिक-धरोहर सम्राट् अशोक-महता तृतीय-शताब्दी-ईसा-पूर्वे निर्माणिता आसीत्। अयं भारतस्य प्राचीनतमेषु बौद्ध-स्मारकेषु एकः। अनन्तरं शुङ्ग-सातवाहन-शासकैः अस्य विस्तारः कृतः, प्रथम-शताब्दी-ईसा-पूर्वे च अत्र चत्वारः भव्याः तोरण-द्वाराः (प्रवेश-द्वाराः) निर्मिताः, येषां मध्ये बुद्धस्य जीवनस्य जातककथाभिः सम्बन्धिता विस्तीर्णा नक्काशिः दृश्यते। सांचीस्तूपः प्रेम्णः, शान्तेः, श्रद्धायाः, साहसस्य च प्रतीकः अस्ति, यूनेस्कोमण्डलेन च विश्वन्यासस्थलरूपेण मान्यतां प्राप्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता