निषाद-राज-नाव-उपशमन-योजना मध्ये प्रयागराजस्य शताधिक मत्स्यजीविनः लाभं प्राप्स्यन्ति
प्रयागराजः 29 नवंबरमासः (हि.स.)। उत्तरप्रदेश-सर्वकारस्य मत्स्य-विभागस्य मन्त्रिणः डॉ॰ संजय-निषादस्य प्रयत्नेन प्रयागराजस्य मत्स्यजीविनां आर्थिकस्थिति दृढा भूयते। अस्मिन् वित्तीयवर्षे शतप्रतिशतं निषाद-राज-नौका-अनुदान-योजनाया लाभः प्रयागराजस्य मत्स्य
निषाद राज बोट सब्सिडी योजना


प्रयागराजः 29 नवंबरमासः (हि.स.)। उत्तरप्रदेश-सर्वकारस्य मत्स्य-विभागस्य मन्त्रिणः डॉ॰ संजय-निषादस्य प्रयत्नेन प्रयागराजस्य मत्स्यजीविनां आर्थिकस्थिति दृढा भूयते। अस्मिन् वित्तीयवर्षे शतप्रतिशतं निषाद-राज-नौका-अनुदान-योजनाया लाभः प्रयागराजस्य मत्स्यजीविभ्यः प्रदास्यते इति मत्स्य-विकास-धिकारी कोरांव-परिक्षेत्रस्य मनोज-कुमारः सूचितवान्।

तेन उक्तं यत् केन्द्रीयस्य मोदी-सर्वकारस्य प्रदेशस्य च योगी-सर्वकारस्य निरन्तरं मत्स्यजीविसमाजस्य मत्स्यपालन-व्यवसायेन संयोजितानां कुलानां आर्थिकस्थितिं दृढीकरणस्य प्रयासः क्रियते। सर्वकारेण सञ्चालितायाः निषादराजनौका-अनुदानयोजनायाः अन्तर्गतम् अस्मिन् वित्तीयवर्षे प्रयागराज-जिलस्य शताधिकाः मत्स्य-व्यवसायिनः अनुदान-लाभाय आवेदनानि समर्पितवन्तः। शासनम् एतेषां अनुमोदनं कृतवद् अस्ति। न केवलम् इदं, यत् मत्स्यजीविभ्यः प्रदातव्या धनराशिः अपि प्रदत्ता। शीघ्रमेव लाभार्थिनां खातेषु अनुदान-धनराशिः प्रेषिता भविष्यति। अस्याः योजनायाः लाभ-प्राप्तये शताधिकाः मत्स्यजीविनः आवेदनानि दत्तवन्तः। सर्वेषाम् ,आवेदनानां स्वीकृतिः प्रदत्ता। एवं प्रकारेण शतप्रतिशतं लाभप्रदानं भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता