आरबीआई एचडीएफसीवित्तकोषे 91 लक्ष रुप्यकाणां दंडःआरोपितः
नव दिल्‍ली, 29 नवंबरमासः (हि.स)। भारतीयरिजर्वबैंक आरबीआई इत्यनेन बैंकिंगविनियमनस्म कतिपयानां नियमस्य उल्लङ्घनं कृतवन्तं निजीक्षेत्रस्थं एचडीएफसीबैंकं प्रति एकनवति लक्षरूप्यकाणां दण्डः आरोपितः। असौ दण्डः अस्य वित्तकोषस्य ‘स्वग्राहकं जानातु’ केवाईस
एचडीएफसी बैंक के लोगो का प्रतीकात्‍मक चित्र


नव दिल्‍ली, 29 नवंबरमासः (हि.स)।

भारतीयरिजर्वबैंक आरबीआई इत्यनेन बैंकिंगविनियमनस्म कतिपयानां नियमस्य उल्लङ्घनं कृतवन्तं निजीक्षेत्रस्थं एचडीएफसीबैंकं प्रति एकनवति लक्षरूप्यकाणां दण्डः आरोपितः। असौ दण्डः अस्य वित्तकोषस्य ‘स्वग्राहकं जानातु’ केवाईसी इति सम्बन्धिषु कानूनी नियामकबाध्यतानां न्यूनतायै आरोपितः।

आरबीआई प्रकाशिते वक्तव्ये उक्तं यत् एचडीएफसीबैंकस्य विरुद्धं दण्डारोपणं तेन बैंकिंगविनियमनकानूनस्य कतिपयेषां नियमस्य उल्लङ्घनम्, ऋणेषु व्याजदरसम्बद्धानां शर्तानां अनुपालनम्, वित्तीयसेवायां जोखिमप्रबन्धनाचारसंहितादिशानिर्देशानां च उल्लङ्घनम्, तथा केवाईसीसम्बद्धानां निर्देशानां च अवहेलनम् इत्येतेषां कारणानां कृते कृतम्।

रिजर्वबैंक अवदत् यत् 31 मार्च 2024 तमे दिनाङ्के वित्तकोषस्य वित्तीयस्थितेः आधारेण तस्य सपर्यवेक्षणमूल्यांकनाय वैधानिकपरीक्षा कृता आसीत्। एतस्मिन् सम्बन्धे वित्तकोषस्य एका सूचना अपि प्रेषिता।

केंद्रीयबैंक उक्तवान् यत् बैंकस्य उत्तरं तेन प्रदत्तान्यधिकजानकार्याश्च परीक्ष्य रिजर्वबैंकस्य अवगतं यत् बैंकविरुद्धाः आरोपाः यथार्थाः आसन्, यैः कारणैः दण्डारोपणम् अत्यावश्यकम् आसीत्।

---------------

हिन्दुस्थान समाचार