‘राजभवन’ इत्यस्य नाम परिवर्तितम्, अधुना ‘लोकभवन’ इति भविष्यति
गुवाहाटी, 29 नवम्बरमासः (हि.स.)। केन्द्रस्य गृहमन्त्रालयेन निर्गतस्य अद्यतन-परिपत्रस्य तथा वर्षे 2024 आयोजितस्य राज्यपाल-सम्मेलनस्य प्रस्तावानां आधारेण देशव्यापि राज्यपालानाम् आवासानां नामपरिवर्तन-प्रक्रिया आरब्धा अस्ति। अस्यै क्रियायाः अनुगामित्वे
‘राजभवन’ इत्यस्य नाम परिवर्तितम्, अधुना ‘लोकभवन’ इति भविष्यति


गुवाहाटी, 29 नवम्बरमासः (हि.स.)। केन्द्रस्य गृहमन्त्रालयेन निर्गतस्य अद्यतन-परिपत्रस्य तथा वर्षे 2024 आयोजितस्य राज्यपाल-सम्मेलनस्य प्रस्तावानां आधारेण देशव्यापि राज्यपालानाम् आवासानां नामपरिवर्तन-प्रक्रिया आरब्धा अस्ति। अस्यै क्रियायाः अनुगामित्वेन असम-सर्वकारेणापि ‘राजभवन’ इति नाम परिवर्त्य ‘लोकभवन’ इति कर्तुं निर्णयः कृतः अस्ति।

प्रकाशित-अधिसूचनायाः आधारे, गृहमन्त्रालयस्य मेमो-सङ्ख्या 7/10/2025 (भाग)-एम् एण्ड् जी दिनाङ्क 25 नवम्बर 2025 इत्यस्य अनुसारं इदं स्पष्टीकृतम् यत् अधुना राज्यपाल-कार्यालयः ‘लोकभवन’ इति, उपराज्यपाल-कार्यालयः ‘लोकनिवास’ इति नामभिः अभिधास्यते। अस्य निर्णयस्य फलरूपेण, ‘‘राजभवन असम’’ इत्यस्य स्थाने आधिकारिकरूपेण ‘‘लोकभवन असम’’ इत्येव नामप्रयोगः भविष्यति। सर्वकारस्य मतं यत् एषः परिवर्तनः संस्थानस्य जनोन्मुखीं भूमिकाम् अधिकं स्पष्टतया प्रतिबिम्बयिष्यति।

---------

हिन्दुस्थान समाचार / अंशु गुप्ता