कांग्रेस मंत्री अकरोत् संघस्य उपरि टिप्पणीः निम्नमानसिकतायाः परिचायकम् इदम् : डॉ. सिकंदर कुमारः
शिमला, 29 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशमहामन्त्री राज्यसभासांसदश्च डाक्टरसिकन्दरकुमारः अवदत् यत् काँग्रेसनेतृभिः राष्ट्रीयस्वयंसेवकसङ्घं भारतीयजनतापक्षनेतॄंश्च प्रति याः टिप्पण्यः क्रियन्ते ताः अत्यन्तमशोभनीयाः अधममानसिकतां च प्रकाशयन
सिकंदर कुमार


शिमला, 29 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशमहामन्त्री राज्यसभासांसदश्च डाक्टरसिकन्दरकुमारः अवदत् यत् काँग्रेसनेतृभिः राष्ट्रीयस्वयंसेवकसङ्घं भारतीयजनतापक्षनेतॄंश्च प्रति याः टिप्पण्यः क्रियन्ते ताः अत्यन्तमशोभनीयाः अधममानसिकतां च प्रकाशयन्ति। ते अवदन् यत् देशस्य स्वतंत्र्यलाभानन्तरं समाजविभाजनकार्यं काँग्रेसपक्षेन एव कृतम्। अद्य तु राष्ट्रनिर्माणकार्ये निमग्नम् संगठनम् अनपेक्षितैरनाधारितैरभियोगैः आरोपयति इति भारतीयजनतापक्षः कदापि न सहिष्यते।

ते आरोपम् अकुर्वन् यत् मन्त्री जगतसिंहनैगी सङ्घं पूर्वमुख्यमन्त्री जयरामठाकुरं च प्रति उत्पन्नेन भयेन ग्रस्तः अस्ति अतः सः निरन्तरं विवादास्पदांश्च तथ्यहीनांश्च वक्तव्यानि प्रयुङ्क्ते। एषा भाषा एषा च मानसिकता समाजे विभेदं जनयति जनता च तादृशं कदाचन न स्वीकुर्यात्।

शनिवासरे दत्ते वक्तव्ये डाक्टरसिकन्दरकुमारः अवदत् यत् काँग्रेसपक्ष एव सः यः कदाचित् मेकिनइन्डिया इति योजनां परिहास्य “बब्बरशेर आगतः” इति वदन् निन्दितवान्। किन्तु अद्य तस्यैव मेकिनइन्डियायाः सिद्धिर्भूता ब्रह्मोस इति मिस्साइल पाकिस्तानस्य दुष्कृत्यानि कठोरतया प्रत्युत्तरितवती तां च अत्याधुनिकमिस्साइलं किञ्चन देशाः भारतात् क्रयतुं उत्सुकतां दर्शयन्ति। एतत् काँग्रेसपक्षस्य नकारात्मकचिन्तनम् देशस्य सिद्धीनां लघूकरणे च प्रवृत्तिं दर्शयति।

ते अवदन् यत् सर्जिकल स्ट्राइक बालाकोट एअर स्ट्राइक इत्यादीनां अतिसंवेदनशीलानां राष्ट्रीयसुरक्षासम्बद्धानां विषयाणां विषये काँग्रेसनेतृभिः यत् प्रमाणम् अपेक्षितं तत् देशविरोधीभावनायाः चिह्नम्। काँग्रेसपक्षः सर्वदा विघटनवादीदलों राष्ट्रविरोधीक्रियाकलापानां च समर्थनं कृतवान् तस्य विदेशशक्तिभिः सह सहकारस्य आरोपाः अपि कालान्तरं प्रकाशिताः।

डाक्टरसिकन्दरकुमारः अवदत् यत् काँग्रेसपक्षेन सङ्घं प्रति निर्मिताः कल्पिताः आपत्तिजनकाः च आरोपाः गम्भीरम् विषयम्। राष्ट्रीयस्वयंसेवकसङ्घः दीर्घकालात् राष्ट्रहिते सेवायां सामाजिकएकतायां च समर्पितः अस्ति। तादृशे संगठनं प्रति दुर्वचनप्रयोगं समाजः न सहिष्यते। भारतीयजनतापक्षः याचते यत् काँग्रेसपक्षः तस्य नेता च सार्वजनिकरूपेण क्षमां याचेयुः।

ते अवदन् यत् काँग्रेसपक्षस्य हिन्दुविरोधीमानसिकता न कस्यचित् गोप्या। निर्वाचनविजयानन्तरं मुख्यमन्त्रिणा उक्तं वचनम् यत् “वयं सप्तनवतिशतांशहिन्दूजनसंख्यां पराजित्य शासनं प्राप्ताः” इति स्पष्टतया तुष्टीकरणं विभाजनकारीचिन्तनं च प्रकटयति। तादृशी मानसिकता प्रदेशस्य देशस्य च सामाजिकऐक्याय घातकाः।

अन्ते डा सिकन्दरकुमारः अवदत् यत् भारतीयजनतापक्षः समाजविभाजनकारीराजनीतिं सर्वतः प्रतिरोधं करिष्यति राष्ट्रहितकारिणां संगठनानां देशभक्तजनानां च मानमर्यादायाः रक्षणार्थं निरन्तरं संघर्षं करिष्यति।

---------------

हिन्दुस्थान समाचार