Enter your Email Address to subscribe to our newsletters

उत्तरकाशी, 29 नवंबरमासः (हि.स.)। :परम्परागतविज्ञानं ग्राम्यनवोन्मेषं च अवगन्तुं भारतीयप्रौद्योगिकसंस्थाया रूडकीस्थस्य डिज़ाइनिङ विभागस्य विंशतिः छात्राः पीएचडी संशोधकाः च शनिवासरे डुण्डाखण्डं प्राप्तवन्तः। घराटश्रृंखलाया संस्थापक अध्यक्षश्च विजयेश्वरप्रसादडंगवाल इत्यनेन उक्तं यत् एषः दलः विकासखण्डस्य डुण्डाक्षेत्रे विभिन्नेषु ग्रामेषु चतुराहदिनीयशैक्षणिकभ्रमणे स्थास्यति, यत्र विद्यार्थी घराटप्रणालीं परम्परागतकृषिं ग्राम्यपर्यटनं स्थानिकजीवनशैलीं च गहनतया ज्ञास्यन्ति।
अस्य अध्ययनयात्रायाः प्रमुखोद्देश्यः अयं यत् ग्राम्यसमुदायेषु निरन्तरं कार्यरतानां सामाजिककार्यकर्तॄणां अनुभवान् अवलम्ब्य एतत् ज्ञातुं यत् पर्वतप्रदेशेषु आर्थिक सामाजिक पर्यावरणीय च संतुलनाय के स्थानिकमाडेलाः दृढीकरणीयाः स्युः। डंगवालमहाशयः अवदत् यत् पर्वतेषु जीवनोपार्जनस्य सह स्वाभाविकसंसाधनानां संरक्षणम् अत्यावश्यकम्। अस्माकं पूर्वजाः कदापि प्रकृतेः अत्यधिकदोहनं न कुर्वन्ति स्म; अद्य पुनः तेषां सततजीवनमूल्यानां प्रति आगन्तव्यम्।
अरण्यगंगाअस्तल डुण्डाक्षेत्रे आयोजिते अस्मिन् शैक्षणिककार्यक्रमे छात्राः परम्परागतघराटतन्त्रज्ञानस्य जलधाराप्रेरितऊर्जायाः स्थानीयकृषिप्रथानां ग्रामीणपर्यटनमाडेलस्य च व्यवहारिकं अध्ययनं करिष्यन्ति। भ्रमणसमाप्तेः अनन्तरं विद्यार्थी पर्वतप्रदेशस्य संतुलितस्य सततविकासस्य कृते उपयुक्तं योजनाबद्धं समग्रं च प्रस्तावं निर्मास्यन्ति।
कार्यक्रमे सामाजिककार्यकर्ता देवेशकॊठारी इत्यनेन जलसंरक्षणस्य अत्यावश्यकतां विशेषतया प्रकाश्य उक्तं यत् पर्वतेभ्यः जलं शीघ्रं समभूमेः दिशं वहति, येन भूजलसंचयः न सिध्यति। अत्र चाल खाल खन्ती इत्यादयः परम्परागतजलसंरक्षणपद्धतयः पुनः विकासनीयाः, येन वृष्टिजलं रोद्धुं शक्यते। राज्यसर्वकारेण पुरस्कृता जानकीदेवी नाम्ना महिलया ऊनवस्त्रस्य परम्परागतद्युति कतनस्य च कौशलं छात्रेभ्यः शिक्षितम्।
अस्मिन् अवसरे भारतीयप्रौद्योगिकसंस्थायाः पीएचडी संशोधकः गजेन्द्रः देवेशकॊठारी दिनेशभट्ट पिङ्की चिराग् अनिलडंगवाल नन्दिनी मास्टर ऑफ डिज़ाइनिङ इति वर्गस्य विंशतिः छात्रच्छात्राश्च सहभागिनोऽभवन्।
हिन्दुस्थान समाचार