समयस्य सदुपयोगं करोतु येन जीवनं सार्थकं स्यात् : आचार्य महाश्रमणः
महाश्रमण का नाथद्वारा में हुआ प्रवचन
आचार्य महाश्रमण धर्म सभा को संबोधित करते हुए एवं उपस्थित जन्मदिन साथी पूर्व विधानसभा अध्यक्ष डॉक्टर सीपी जोशी भी संबोधित करते हुए


राजसमंदः, 29 नवंबरमासः (हि.स.)।जिलायां नाथद्वारे जैनश्वेताम्बरतेरापन्थधर्मसङ्घस्य एकादशम आचार्यः महाश्रमणः अवदत् यत् कालस्य नित्यं सदुपयोगः करणीयः। तेन राजनीतिज्ञेभ्यः अपि उपदेशः दत्तः। आचार्यः महाश्रमणः स्वस्य एकदिवसीयनाथद्वारप्रवासस्य अवसरस्य लालबागस्य समीपे अपारजनमेदिनीं प्रति प्रदत्ते प्रवचने एतत् उक्तवान्। तस्मात् पूर्वं तस्य भव्यं स्वागतं विविधेषु स्थानेषु कृतम्।

ते अवदन् यत् मानवजीवनस्य प्राप्तिः महान् अवसरः। तस्य साधनां कुर्वन् मनुष्यः मोक्षमार्गं प्राप्नुयात्। अतः मानवजीवनं सार्थकं कर्तुं सर्वदा सकारात्मकं जीवनं जीवितव्यम्। तेनोक्तम् यत् राजकारणे सहनशीलता अतीव आवश्यकम्। तथा च राजनैतिककार्येषु राष्ट्रहितं सर्वोपरी स्थाप्य कार्यम् इति सर्वेभ्यः निर्देशः दत्तः।

धर्मसभायाम् मुख्यातिथिरूपेण उपस्थितः राजस्थानविधानसभायाः पूर्वाध्यक्षः सीपीजोशी अपि सभिकान् सम्बोध्य अवदत् यत् आचार्यस्य महाश्रमणस्य उद्बोधनात् व्यक्तिषु समाजे च राष्ट्रनिर्माणप्रति जागरणभावः स्फूर्तिं जनयित्वा अस्मान् अग्रे अनयिष्यति इति अपेक्षा। एषा प्रेरणा अनन्तरं अपि स्थिरतां प्राप्नुयात् समाजे च नित्यमेव एषा जागृतिः वर्तताम् इति तेन अभिलषितम्। कार्यक्रमे साध्वीप्रमुखया अपि सम्बोधनं कृतम्।

तस्मात् पूर्वं आचार्यस्य आगमने तेरापन्थसभायाः महामन्त्री चन्द्रसिंहकोठारी रमेशजैन निर्मलजैन च तथा सभाध्यक्षः विश्वजीतसिंहकर्णावत इत्यादयः महिला मण्डल तेरापन्थयुवकपरिषद् कन्यामण्डलमिति सर्वे संघटनाः ससन्मानम् अगवनीयम् अकुर्वन्। कार्यक्रमे बालकबालिकाभिः रोचकाः प्रस्तुतयः प्रदत्ताः। अन्याः झांक्यः अपि सुसज्जिताः याः आचार्येण महाश्रमणेन अवलोकिताः

---------------

हिन्दुस्थान समाचार