Enter your Email Address to subscribe to our newsletters

पटना, 29 नवम्बरमासः (हि.स.)।
मुख्यमन्त्रिणा नीतिशकुमारेन स्वपितुः स्वर्गीयकविराजरामलक्षसिंहस्य पुण्यतिथौ स्वस्य पैतृके ग्रामे कल्याणबिघहा गत्वा “कविराजरामलक्षसिंहस्मृतिवाटिकायाम्” तस्य प्रतिमायां माल्यं निधाय श्रद्धाञ्जलिः अर्पिता, नमस्करणं च कृतम्। तथा मुख्यमन्त्रिणा स्वमातुः स्वर्गीयपरमेश्वरीदेव्याः, धर्मपत्नीस्वर्गीयमञ्जूसिन्हायाः च प्रतिमासु अपि माल्यार्पणं कृत्वा भावपूर्णा श्रद्धाञ्जलिः दत्ता।
अस्मिन् अवसरि मुख्यमन्त्रिणः ज्येष्ठभ्राता सतीशकुमारः, अन्ये परिवारस्य सदस्याः सन्निकटबन्धवाश्च स्वर्गीयकविराजरामलक्षसिंहं, स्वर्गीयपरमेश्वरीदेवीं, स्वर्गीयमञ्जूसिन्हां च प्रति माल्यार्पणपूर्वकं नमस्करणं कृत्वा श्रद्धाञ्जलिं अयच्छन्।
सांसदः कौशलेन्द्रकुमार, विधायकः कृष्णमुरारीशरण, विधायकः जितेन्द्रकुमार, विधायकः कौशलकिशोरः, विधायकः रूहेन्द्ररञ्जनः, विधानपरिषदः सदस्यः सञ्जयकुमारसिंह उर्फ् गान्धीजि, विधानपरिषदः सदस्यः ललनसार्राफ्, जदयू-राष्ट्रीयमहासचिवः मनीषकुमारवर्मा, पूर्वविधायकः ई. सुनीलकुमारः, मुख्यमन्त्रिणः सचिवौ कुमाररवि, डॉ. चन्द्रशेखरसिंहः* इत्यादयः बहवः सामाजिक-राजनीतिककार्यकर्तारः अपि कविराजरामलक्षसिंहस्य प्रतिमायाम् पुष्पाञ्जलिं निवेद्य श्रद्धाञ्जलिं ददुः।
अतिरिक्तरूपेण मुख्यमन्त्रिणा स्वग्रामे कल्याणबिघहायां स्थिते भगवतीमन्दिरे (देवीस्थानम्) पूजाऽर्चना कृता। मुख्यमन्त्रिणा स्वपैतृके गृहे समीपे स्थिते ताले मच्छलीभ्यः आहारोऽपि दत्तः। कल्याणबिघहाग्रामवासिनः तं स्वमध्य आगतम् उपलभ्य अत्यन्तं प्रहृष्टा अभवन्।
मुख्यमन्त्री स्थानीयजनैः सह मिलित्वा तेषां कुशलं पृष्टवान्, तेषां प्रणामं स्वीकृतवान् च। अस्मिन् काले मुख्यमन्त्रिणा स्थानीयजनानां समस्याः श्रुताः, तेषां समाधानार्थं अधिकारिभ्यः आवश्यकाः निर्देशाः दत्ताः।
---------------
हिन्दुस्थान समाचार