Enter your Email Address to subscribe to our newsletters


पूर्वी सिंहभूमम्, 3 नवंबरमासः (हि.स.)।गोलमुरीचतुष्कोणे चाल्यमानेन यातायातपुलिसदलेन हेल्मेटपरीक्षणकार्यक्रमे सोमवारे एकं दृश्यं दृष्टम् यत् सर्वेषां हृदयेषु शिक्षाः सम्मानश्चाभवत्।
पुलिसाधिकारी एकस्मिन् पश्चात् एकं वाहनं परीक्ष्यन्ते स्म। तस्मिन् समये पगडीधारी एकः सिखयुवकः शिरस्त्राणेन विना द्विचक्रयानेन आगतः। तम् अधिकारी अवरुद्ध्य उक्तवान् यत् “नियमाः सर्वेभ्यः समानाः, हेल्मेटं धारयितव्यम्।”
ततः युवकः शान्तस्वरेण प्राह यद्“अहं पगड्याः उपरि हेल्मेटं न धारयितुं शक्नोमि। पगडी मम केवलं शीर्षे बद्धं वस्त्रं नास्ति, अपि तु मम धर्मस्य अस्मितायाश्च प्रतीकं अस्ति।”
अधिकारिणा प्रत्युक्तं यत् “नियमाः सर्वेभ्यः समानाः, मार्गसुरक्षा प्रथमा।”
उभयोः मध्ये आदरयुक्तः तर्कसंवादः किञ्चित्कालं प्रवृत्तः। उपस्थितजनाः तस्य संवादस्य प्रशंसां कृतवन्तः।
अधिकारी नियमस्य महत्त्वं विवृणोति स्म, युवकश्च स्वधर्मस्य मर्यादां व्याचष्टे स्म।
अन्ते अधिकारी स्मितपूर्वकं तस्मै पुष्पं दत्त्वा अवदत् यत्
“वयं भवतः धर्मं भावना च अवगच्छामः, किन्तु भवतः सुरक्षा अपि समानरूपेण आवश्यकाः। वयं इच्छामः यत् भवान् सुरक्षितः भवेत् — एषा एव परमा श्रद्धा।”
युवकः अपि तस्य अधिकारीणः सौम्यभावेन तुष्टः सन् धन्यवादं दत्तवान्।
तस्मिन् अभियानकाले अन्येभ्यः द्विचक्रचालकेभ्यः त्रिचक्रयात्रिभ्यश्च पुलिसकर्मिणः नियमपालनस्य अपीलं कृतवन्तः।
ये नियमपालनं कृतवन्तः, तान् पुष्पैः सम्मानितवन्तः।
---------------
हिन्दुस्थान समाचार