Enter your Email Address to subscribe to our newsletters

जम्मू, 03 नवम्बरमासः। जम्मू-कश्मीरराज्यस्य मुख्यमन्त्री उमर अब्दुल्ला सोमवासरे स्वस्य अधिकृतनिवासात् पदयात्रया नागरिकसचिवालयं प्रति गतवान्।
एवं चतुर्वर्षानन्तरं पुनः अर्धवार्षिक-दरबार-मूव् नामकः प्राचीनः प्रचलनः आरब्धः अभवत्। यदा सः राजनिवासमार्गं तथा रघुनाथ-विपणम् अतिवर्तत्, तदा जम्मू वाणिज्य-औद्योगिक-मण्डलस्य सदस्यैः सह विविधैः व्यापारी-संघैः च तस्य भव्यं स्वागतं कृतम्। तेन २०२१ तमे वर्षे स्थगितायाः शताब्द्यधिकपुरातनायाः परम्परायाः पुनर्जीवनार्थं कृतं निर्णयं प्रशंसितम्।
एषः दरबार-मूव् इति प्रचलनः ऋतुपरिवर्तनानुसारं शासनकार्यालयानां श्रीनगरेभ्यः जम्मूपर्यन्तं च स्थानान्तरणं करोति। श्रीनगरे नागरिकसचिवालयः अन्ये च मूव्-कार्यालयाः ३०–३१ अक्टूबरदिवसेषु सम्पूरिताः आसन्। अधुना तु षण्मासपर्यन्तं जम्मू-नगरी शीतकालीनराजधानीरूपेण शासनं वहति।
एषः प्रचलनः प्रायः शतपञ्चाशदधिकवर्षपूर्वं डोग्रराजभिः आरब्धः। वर्षे २०२१ तु एल्.जी. सिन्हा नाम्ना प्रशासकेन ई-कार्यालय-व्यवस्था प्रवर्तनं कृत्वा तं प्रचलनं निवारितम्, येन तस्य मते प्रतिवर्षं द्विशतकोटिरूप्यकाणां सञ्चयः स्यात्। तस्य निर्णयस्य विरोधं जम्मूवाणिज्यसमाजेन सह अनेके वर्गाः अकुर्वन्। यतः तैः एषः प्रयासः व्यापारस्य च उभयप्रदेशयोः पारम्परिकसंबन्धस्य च हानिकारकः इति मन्यते स्म।
ते तदा प्रथमतः एतस्य पुनरारम्भं प्रति आग्रहं कुर्वन्तः आसन्।अष्टादशोक्टूबरमासदिनाङ्के अब्दुल्लेन दरबार-मूव् पुनः आरब्धः, येन सः स्वस्य निर्वाचन-व्रतं पूरयामास, व्यापारीसमाजे च हर्ष-उत्साहः जाता। प्रातः नववादने मुख्यमन्त्री उमर अब्दुल्ला उपमुख्यमन्त्रिणा सुरेन्द्रचौधरी मन्त्रिणा जावेदराणा च सह स्व-निवासात् निर्गत्य किञ्चित् किलोमीटरपर्यन्तं पदयात्रया सचिवालयं प्राप्तः।
विपणिजनाः अपि बहुसंख्येन उपस्थिताः। ते मुख्यमन्त्रिणं मालाभिः अलंकृतवन्तः, पुष्पवृष्टिं च कृतवन्तः, मृदङ्गनिनादेन आनकनादेन च सह आनन्दोत्सवम् अकार्षुः।सचिवालयमार्गे तु सुरक्षा-कर्मचारिणः उत्साहितं जनसमूहम् अधारयितुं प्रयत्नं कृतवन्तः। अन्ते जम्मू वाणिज्य-औद्योगिक-मण्डलस्य अध्यक्षः अरुणगुप्ता मुख्यमन्त्रिणं अभिनन्दितवन्तः प्रथमः आसीत्।
हिन्दुस्थान समाचार / Dheeraj Maithani