Enter your Email Address to subscribe to our newsletters

रांची, 3 नवंबरमासः (हि.स.)।झारखंडराज्यस्य कृषिमन्त्री शिल्पी नेहा तिर्की सोमवासरे चान्हो प्रखण्डसह अञ्चलकार्यालयस्य आकस्मिकं निरीक्षणं कृतवती। निरीक्षणकाले तत्र प्रखण्डविकासाधिकारिणा अञ्चलाधिकारिणा च सह अनेकाः कर्मचारीणः अनुपस्थिताः दृष्टाः। मन्त्री कार्यालयस्य प्रत्येकं कक्षं सूक्ष्मतया निरीक्ष्य आगतानां ग्रामिणानां सह संवादं कृतवती, तेषां समस्याः च ज्ञातवती। ग्रामिणैः अधिकारिणां अनुपस्थितिरेव शैथिल्यंच सम्बन्धिनः परिवादाः मन्त्रीसमक्ष प्रस्तुताः। कार्यालये व्यापन्नं मौनं दृष्ट्वा तथा बन्दकक्षान् विलोक्य मन्त्री क्रुद्धा अभवत्, तत्क्षणमेव राँचीउपायुक्तं प्रति सूचनां दत्तवती। सा बायोमेट्रिक-उपस्थितेः आधारेण कारणदर्शनपत्रं (शोकॉज़ नोटिस) निर्गन्तुं आदेशं दत्तवती। सहैव अञ्चलाधिकारिणं प्रखण्डविकासाधिकारिणं च कार्यालयात् अनुपस्थितेः कारणं दर्शयितुं निर्दिष्टवन्तौ। कृषिमन्त्रिणा उक्तं यत् चान्होप्रखण्डकार्यालये अधिकारीणां कर्मचारिणां च समये न आगमनं नियमिततया न दृश्यते इति परिवादाःनिरन्तरं प्राप्ताः, तेनैव अद्य आकस्मिकं निरीक्षणं कृतम्। सा स्पष्टरूपेण उक्तवती यत् प्रखण्डसहअञ्चलकार्यालयः जनसेवायै अस्ति, न तु व्यक्तिसुविधायै। यदि अधिकारी कर्मचारी च व्यवस्था-अनुशासनयोः पालनं न कुर्वन्ति, तर्हि तादृशाः अधिकारी माण्डरविधानसभाक्षेत्रे आवश्यकाः न सन्ति। अस्मिन् समये अनेके जनाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार