Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 03 नवंबरमासः (हि.स.)।उत्तराखण्डराज्यस्य स्थापनेः रजतजयंतीसमारम्भस्य अवसरे अद्य विधानसभायाः द्विदिवसीयं विशेषसत्रम् आरभ्यते। अस्य सत्रस्य उद्घाटनं भारतराष्ट्रपत्नी श्रीमती द्रौपदीमुर्मूः करिष्यति। एषः सत्रः आत्ममन्थनस्य च राज्यस्य भविष्यदिशानिर्धारणस्य च अवसरः भविष्यति।
राज्यस्थापनायाः पञ्चविंशतिवर्षपर्यन्तं प्राप्ताः उपलब्धयः जनजनं प्रति प्रेषयितुं विविधप्रयत्नाः क्रियमाणाः सन्ति। विशेषसत्रस्य प्रारम्भः राष्ट्रपत्न्याः अभिभाषणेन भविष्यति।
राष्ट्रपत्नी रविवासरे मध्यान्हे दूननगरं प्राप्तवती। सोमवासरे प्रातः एकादशवादने विशेषसत्रे सदस्यानां मध्ये सा एकघण्टाकालपर्यन्तं संबोधनं करिष्यति। ततः राज्यपालः, मुख्यमन्त्री, विधानसभा-अध्यक्षः, विपक्षनेता च पञ्च-पञ्चमिनिटपर्यन्तं स्वागतभाषणं प्रदास्यन्ति। तेषां भाषणानन्तरं राष्ट्रपत्न्या औपचारिकं संबोधनं आरभ्यते।
द्वितीयदिने राज्यस्थापनायाः पञ्चविंशत्याः रजतजयंतीवर्षस्य प्रसङ्गे राज्यस्य प्रगतिः भविष्यस्य च मार्गरेखासम्बन्धे विशेषचर्चा भविष्यति।
एतत् विशेषसत्रं देवभूमेः उत्तराखण्डस्य आध्यात्मिक-सांस्कृतिकविरासताम्, विगतपञ्चविंशतिवर्षपर्यन्तं विकासयात्रां, आगामिवर्षाणां सम्भावनाः च विषयीकृत्य आयोजितं भविष्यति। ततः राष्ट्रपत्नी नैनीतालं प्रति प्रयास्यति।
मन्त्री सुबोधउनियालः उक्तवान् — “एतत् विशेषसत्रं अस्माकं कृते आत्ममन्थनस्य भविष्यदिशानिर्धारणस्य च सुअवसरः अस्ति। राज्यस्य पञ्चविंशतिवर्षपर्यन्तं विकासयात्रा समर्पणस्य, संघर्षस्य, सेवानिष्ठायाः च कथा अस्ति।”
विपक्षनेता यशपालआर्यः उक्तवान् — “उत्तराखण्डराज्यस्य जनसमस्याः अपि अस्मिन् विशेषसत्रे चर्चायाम् उपस्थाप्यन्ते। विशेषतः प्रदेशस्य पलायनसमस्या, शिक्षाव्यवस्था, स्वास्थ्यसेवा इत्यादयः गम्भीरविषयाः सन्ति। अनेकाः विषयाः सन्ति येषां समाधानं पञ्चविंशतिवर्षेभ्यः अपि न जातम्। एते सर्वे विषयाः विपक्षेण सत्रे उत्थास्यन्ते।”
---
हिन्दुस्थान समाचार