मध्यप्रदेशः मुख्यमंत्री अद्य विद्युत् बिलपत्राणि ऋणदातृभ्यः समाधान योजनायाः करिष्यते शुभारंभः
भोपालम्, 03 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य सोमवासरे प्रातः दशवादने भोपालनगरस्य ई–4 अरेराकॉलोनीस्थिते एमपी पॉवर मैनेजमेण्ट् कम्पनी इत्यस्य क्षेत्रीयकार्यालये ऊर्जा-विभागेन प्रवर्त्यमानायाः “समाधान-योजना 2025–26”
सीएम मोहन यादव


भोपालम्, 03 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य सोमवासरे प्रातः दशवादने भोपालनगरस्य ई–4 अरेराकॉलोनीस्थिते एमपी पॉवर मैनेजमेण्ट् कम्पनी इत्यस्य क्षेत्रीयकार्यालये ऊर्जा-विभागेन प्रवर्त्यमानायाः “समाधान-योजना 2025–26” इत्यस्य शुभारम्भं करिष्यन्ति।

राज्यस्य ऊर्जा-मन्त्री प्रद्युम्नसिंहतोमरः उक्तवान् यत् विलम्बितवितरणपत्राणां (बिलानां) भुगतौ सरचार्ज् इत्यस्मिन् महान् रियायतीलाभः प्रदत्तः अस्ति। एषा योजना 3 नवम्बरतः 28 फरवरी 2026 पर्यन्तं प्रवर्तिष्यते।

प्रथमः चरणः 3 नवम्बरतः 31 दिसम्बरपर्यन्तं भविष्यति, यस्मिन् 60 प्रतिशततः 100 प्रतिशतपर्यन्तं सरचार्ज् माफी भविष्यति।द्वितीयः चरणः 1 जनवरीतः 28 फरवरी 2026 पर्यन्तं भविष्यति, यस्मिन् 50 प्रतिशततः 90 प्रतिशतपर्यन्तं सरचार्ज् माफी दीयते।

भुगतानविकल्पेषु एकमुश्तभुगतौ अधिकतमा छूट् लभ्यते तथा षट्किष्टेषु सरलभुगतानसुविधा अपि भविष्यति।

अस्मिन् कार्यक्रमे ऊर्जा-विभागस्य अपरमुख्यसचिवः नीरजमण्डलोई, एमपी पॉवर मैनेजमेण्ट्-कम्पनीस्य प्रबन्धसञ्चालकः अविनाशलवानीयः, मध्यक्षेत्रविद्युत्वितरणकम्पनीस्य प्रबन्धसञ्चालकः क्षितिजसिंहलः च अन्ये च वरिष्ठाधिकारीणः उपस्थिताः भविष्यन्ति।

हिन्दुस्थान समाचार