Enter your Email Address to subscribe to our newsletters

रायगढ़म् 3 नवम्बरमासः (हि.स.)।छत्तीसगढराज्यस्य स्थापनादिवसस्य रजतजयंतीवर्षे मुख्यालयस्थे शहीद कर्नल विप्लव त्रिपाठी स्टेडियम् इत्यत्र आयोजिते राज्योत्सवकार्यक्रमे गतसन्ध्यायां प्रदेशस्य वित्तमन्त्री ओ.पी.चौधरी महोदयेन कार्यक्रमस्य शुभारम्भः कृतः। मंत्रीवर्येण भारतमातुः तथा छत्तीसगढमहतार्याः छायाचित्रयोः पुरतः दीपप्रज्वलनं कृत्वा सर्वान् रजतजयंतीमहोत्सवस्य हार्दिकं अभिनन्दनं दत्तम्।
कार्यक्रमे सभां सम्बोध्य वित्तमन्त्री चौधरी अवदत्— “अद्य अस्माकं प्रदेशस्य गौरवस्य च आत्मगौरवस्य च क्षणः अस्ति यत् छत्तीसगढराज्यं पञ्चविंशतिवर्षाणि पूर्णानि कृतवान्। अस्य राज्यस्य स्थापना श्रद्धेय अटल बिहारी वाजपेयी-महाभागस्य दूरदृष्टेः संकल्पस्य च फलम् अस्ति, येषां प्रयत्नैः छत्तीसगढः समृद्धः प्रगतिशीलश्च प्रदेशः भूत्वा उदितः। रजतजयंतीवर्षं प्रदेशस्य विकासयात्रायाः प्रतीकः अस्ति।”
मन्त्रिणा प्रदेशवासिनः विजन २०४७ इति लक्ष्यस्य सिद्ध्यर्थं ऐक्यम् अपेक्ष्य कार्ये नियोजिताः। सः अवदत्— “प्रधानमन्त्रिणः नरेन्द्रमोदिः नेतृत्वे भारतं विकसितराष्ट्रत्वस्य दिशायां गतिमानं अस्ति, छत्तीसगढराज्यं अपि तेनैव संकल्पेन विकासपथे अग्रगच्छति। प्रधानमन्त्रिणा छत्तीसगढप्रवासे सप्तघण्टिकालं प्रदेशे व्यतीत्य बहवः विकासपरियोजनाः प्रदत्ताः, यत् अस्माकं सर्वेषां गर्वविषयः अस्ति।”
तेन उक्तम्— “राज्यनिर्माणात् पूर्वं छत्तीसगढस्य स्थितिः कठिनाभूत्। अस्माकं लौहअयस्कस्य वनसंपदायाः च लाभः नासीत्। अद्य तु सर्वं रूपं परिवर्तितम्। राज्यनिर्माणानन्तरं छत्तीसगढः शिक्षा, स्वास्थ्य, उद्योग, अधोसंरचना इत्यादिक्षेत्रेषु अभूतपूर्वं प्रगतिं साधितवान्।”
वित्तमन्त्री चौधरी अवदत्— “राज्यगठनकाले केवलं एकः शासकीय-वैद्यकीय-महाविद्यालयः आसीत्। अद्य तु तेषां संख्या चतुर्दशा जाताः, शीघ्रं च विंशताधिकाः भविष्यन्ति। एम.बी.बी.एस् स्थानानि १०० इत्यस्मात् वर्धयित्वा २००० पर्यन्तं गच्छन्ति।”
तेन उक्तम्— “अद्य प्रदेशे आई.आई.टी., आई.आई.एम्., एन.आई.टी., आई.आई.आई.टी. इत्यादयः राष्ट्रीयस्तरीयसंस्थानानि सञ्चलन्ति, ये छत्तीसगढस्य शैक्षणिकप्रगतेः साक्षिणः सन्ति।”
तेन उक्तम्— “मुख्यमन्त्रिणः विष्णुदेव साय-महाभागस्य नेतृत्वे रायगढजिल्ला निरन्तरं विकासमार्गे स्थितः। उद्योगक्षेत्रेण सह शिक्षा-संस्कृति-क्षेत्रयोः अपि महत्त्वपूर्णा प्रगति दृश्यते। नालन्दा-परिसरस्य निर्माणं चत्वारिंशद्कोटिरूप्यकाणां व्ययेन प्रचलति। संस्कृतमहाविद्यालयः, नर्सिंग-कॉलेजः, उद्यानिकी-महाविद्यालयः, क्रीडासम्पुटश्च शीघ्रं निर्मीयन्ते।”
मन्त्रिणा उक्तम्— “रायगढे ऑक्सीजन-पार्कः, एथलेटिक्-ट्रैक्, स्विमिंग-पूलः, क्रिकेट-फुटबॉल-मैदानं, नूतनः क्रीडासम्पुटश्च निर्मीयन्ते। मार्गविस्तारणं नगरीयविकासकार्यं च तीव्रगत्या प्रवर्तते।”
अस्मिन्नेव अवसरं जिलापरिषदुपाध्यक्षः दीपक सिदारः, सभापतिः डिग्रीलाल साहू, नगरपालिकाध्यक्षः कमल गर्गः, जिलापरिषद्सदस्या सुषमा खलखो च अन्ये जनप्रतिनिधयः, अधिकारीणः, नागरिकाश्च बहुसंख्येन उपस्थिताः आसन्।
आभारप्रदर्शनं जिलापरिषद्सीईओ अभिजीत् बबन पठारे कृतवान्।
विद्यालयीयबालकैः संस्कृतिककार्यक्रमाणां मनोहरप्रस्तुति
राज्योत्सवसमारोहे प्रथमदिने शहीद कर्नल विप्लव त्रिपाठी स्टेडियम् इत्यत्र स्कूलीबालकैः अद्भुताः प्रस्तुतयः दत्ताः। सोमदास-समूहेन गणेशवन्दना, डा. दीपिका सरकार-समूहेन शिवस्तोत्रनृत्यम्, कुमारी मानवी अग्रवालया कथकनृत्यम्, कार्मेल कन्या विद्यालयस्य विद्यार्थिभिः मराठी-लोकनृत्यम् इत्यादयः आकर्षकाः प्रस्तुतयः कृताः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता