Enter your Email Address to subscribe to our newsletters

प्रदेशात् आगतानां सर्वेषां प्रार्थकानां मुख्यमन्त्रिणा साक्षात् श्रवणम्।
लखनऊनगरम्, ३ नवम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः नवम्बरमासस्य प्रथमसोमवारे अपि ‘जनतादर्शन’ नामक कार्यक्रमं निर्वाहितवान्।मुख्यमन्त्रिणा प्रदेशस्य विभिन्नजनपदेषु आगतानां पीडितानां समीपं गत्वा तेषां समस्याः श्रुताः।
अनन्तरं तेन अधिकाऱिणः प्रति आदेशः दत्तः यत् निर्दिष्टसमये यथोचितं निस्तारणं करोतु तथा पीडितेभ्यः प्रत्युत्तरं अपि गृह्यताम्।
एतेन समये षष्ट्यधिकाः पीडिताः एकैकशः स्वसमस्या मुख्यमन्त्रिणं अवगापितवन्तः। पीडितैः सह संवादं कृत्वा मुख्यमन्त्री उक्तवान् — सर्वकारः सर्वेषां प्रदेशवासिनां सुरक्षायै सम्मानाय च दृढसंकल्पिता अस्ति।
‘जनतादर्शन’ कार्यक्रमे कतिपये पीडिताः आरक्षकविभागस्य कार्यप्रवृत्तौ असंतोषं प्रकटितवन्तः।
चौर्यकाण्डस्य उद्घाटनानन्तरमपि पुनः संपत्तेः अप्राप्तेः विषये असन्तोषः व्यक्तः।
भूम्यधिग्रहणस्यापि समस्या मुख्यमन्त्रिणः समीपे उपस्थापिता।
एतस्मिन्नपि विषयेमुख्यमन्त्रिणा उक्तम् — तत् त्वरितं परीक्ष्य अधिग्रहणः तत्कालं निराक्रियताम् इति आदेशः दत्तः।
एकः पीडितः उपचारार्थं आर्थिकसहाय्यां याचितवान्। तत्प्रति मुख्यमन्त्री उक्तवान् — भवन्तः केवलं चिकित्सालयात् अनुमानपत्रं प्रेषयन्तु, स्वरुग्णं पालयन्तु। अन्यत् सर्वं मयि स्थापयन्तु। धनाभावेन कस्यापि पीडितस्य उपचारः न स्थगितः भविष्यति। सर्वकारः आद्यदिनात् एव सर्वेषां आवश्यकोपचाराय सज्जा अस्ति।
मुख्यमन्त्रिणा ‘जनतादर्शन’ मध्ये आगतानां प्रार्थकानां सह आगतानां बालकानां कुशलं पृष्टम्। नन्हेषु-मुन्नेषु शिरसि हस्तं स्थाप्य स्नेहम् अददात्, मातृत्व-पितृत्वस्य भावं जनयामास। सी.एम्. योगिना सर्वेषु बालकेषु चाकलेहं वितरिताः।
तेन बालकेभ्यः उक्तम् —
भवतः सम्यक् पठन्तु, उत्साहेन क्रीडन्तु, मातापित्रोः नाम यशः च प्रकाशयन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता