आईएनडीआईए ब्लॉक पारिवारिक माफिया इत्यस्य समर्थने अवैधप्रवेशिषु आमंत्र्य बिहारस्य सुरक्षां भंजयति : योगी आदित्यनाथः
पटना /दरभंगा, 3 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमन्त्रिणा योगिना आदित्यनाथेन सोमवारे बिहारराज्यस्य दरभङ्गाजिलायां स्थिते केवटीविधानसभाक्षेत्रे भारतीयजनतापक्षस्य (भाजपा) प्रत्याशी मुरारीमोहनझा इत्यस्य सहितं सर्वेषां दशसु विधानसभाक्षेत्रेष
योगी आदित्यनाथ बिहार के दरभगा में जनसभा करते हुए


पटना /दरभंगा, 3 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमन्त्रिणा योगिना आदित्यनाथेन सोमवारे बिहारराज्यस्य दरभङ्गाजिलायां स्थिते केवटीविधानसभाक्षेत्रे भारतीयजनतापक्षस्य (भाजपा) प्रत्याशी मुरारीमोहनझा इत्यस्य सहितं सर्वेषां दशसु विधानसभाक्षेत्रेषु राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) प्रत्याशीनां पक्षे आयोजितायां जनसभायां जनान् सम्बोध्य समर्थनं याचितम्।

जनसभां सम्बोध्य योगी आदित्यनाथमहाभागः अवदत् यत् काँग्रेसेन भगवानरामस्य माताजानक्याः च अस्तित्वे विषये संशयः प्रकटितः आसीत्। तैः जनानां श्रद्धायाः अवमानः कृतः, उच्चत्तमन्यायालये अपि तयोः अस्तित्वं निराकृत्य शपथपत्रं प्रस्तुतम्। राष्ट्रियजनतादलेन (राजद) रामरथयात्रायाः अवरोधनं कर्तुं यत्नः कृतः, समाजवादिपक्षेन च अयोध्यायां रामभक्तेषु गोळीप्रहारस्य आदेशः दत्तः, येन पवित्रा नगरी रक्तरञ्जिता अभवत्।

तेन आरोपितं यत् आईएनडीआईए गठबन्धनं “पारिवारिकमाफिया”नामकानां समर्थनं कुर्वन्, अनधिकृतप्रवेशकारिणः आमन्त्रयन्, “बिहारस्य सुरक्षां भङ्गयति” इति कार्यं करोति।

योगी आदित्यनाथेन उक्तं यत् राजदशासनकाले बिहारराज्ये सप्ततिं अधिकानि नरसंहाराणि अभवन्। जातिं जात्या विरुद्धं उदीर्य, कन्याः व्यापारीणश्च भयभीताः कृता, शस्त्रबलात् न्यायव्यवस्था नष्टा च। एते पक्षाः जनान् जात्याधारेण विभजन्ति, राष्ट्रियसुरक्षां च दुर्बलयन्ति।

तेन व्याजेनोक्तं — “भवद्भिः महात्मागान्धेः त्रयः वानराः श्रुताः, परन्तु अद्य आईएनडीआईए गठबन्धने त्रयः नूतनवानराः — पप्पू, टप्पू, अप्पू च — सन्ति। पप्पू सत्यं न वदति, टप्पू सम्यक् न पश्यति, अप्पू सत्यं न शृणोति।”

मुख्यमन्त्रिणा उक्तं यत् एते नेतारः राजगशासनकाले सम्पन्नान् विकासकार्यान् न द्रष्टुं, न श्रोतुं, न वक्तुं शक्नुवन्ति, अतः मिथ्यावृत्तिं प्रसारयन्ति। राजदकाँग्रेसगठबन्धनं प्रति तीक्ष्णं प्रहारं कृत्वा तेन उक्तं यत् राजदेन काँग्रेससमर्थनेन बिहारराज्ये शासनकाले दरिद्रजनाः राशनं योजनाभ्यः च वञ्चिताः आसन्। २००५ वर्षात् पूर्वं काँग्रेसराजदशासनकाले यदि कोऽपि गरीबः रोगग्रस्तो अभवत्, तर्हि सः वेदनया विलपन् म्रियते स्म, चिकित्सासुविधा हि नासीत्।

योगी आदित्यनाथेन काँग्रेसपक्षं प्रति कश्मीरविषये अपि आक्षेपः कृतः, उक्तं च — तस्याः नीतिभिः एव कश्मीरविवादितप्रदेशः जातः। काँग्रेस एव कश्मीरं विवादितं कृतवती। अधुना प्रधानमन्त्रिणः नरेन्द्रमोदिनः अमितशाहस्य च नेतृत्वे कश्मीरः आतंकवादात् मुक्तः जातः।तेन उक्तं यत् एकस्य अभिनेतुः विषये तेन वार्ता पठिता आसीत्, यः सप्तविंशतिवर्षाणाम् अनन्तरं कश्मीरं गन्तुं शक्नोति स्म। एषः काँग्रेसपापः आसीत् यतः हिन्दवः कश्मीरं त्यक्तवन्तः। अधुना मिथिलाबिहारयोः जनाः अपि तत्र शान्त्या वसन्तु शक्नुवन्ति।

योगिना आदित्यनाथेन मतदातॄन् प्रति आह्वानं कृतम् यत् केवटीक्षेत्रात् राजगपक्षस्य प्रत्याशी मुरारीमोहनझायाः समर्थनं कुर्वन्तु, दुष्टदंगायिनः च पुनः न आगच्छेयुः। तेन उक्तं यत् नितीशकुमारस्य नेतृत्वे पुनः बिहारराज्ये राजगशासनं स्थाप्यताम्।

---------------

हिन्दुस्थान समाचार