Enter your Email Address to subscribe to our newsletters

किश्तवाडम्, 03 नवम्बरमासः (हि.स.)। उपराज्यपालः मनोज-सिन्हा अद्य दिवसे किश्तवाडस्य चिशोती-ग्रामे आगत्य जलाप्लावप्रभावितानां परिवाराणां कृते नूतनगृहाणां निर्माणाय आधारशिलां स्थापयत्।
चिशोत्यां जातायां प्राकृतिक-आपदायां पूर्णतया विनष्टानि यानि 19 गृहाणि, तेषां पुनर्निर्माणं हाई-रेञ्ज् रूरल् डेवलपमेण्ट् सोसाइटी (एच्.आर्.डी.एस्. इण्डिया) इत्यस्य नागरिक-संघटनस्य सहयोगेन निःशुल्कतया क्रियते।
स्वकीय भाषणे उपराज्यपालेन उक्तं यत्, अस्मिन् दुःखदप्राकृतेः आपदाकाले यैः नागरिकैः सुरक्षाकर्मिभिः च प्राणाः नष्टाः, तेषां प्रति सः श्रद्धाञ्जलिं अर्पितवान्। उपराज्यपालः अवदत्— “एषा विनाशकारिणी बाढ़ा अनेकान् जीवनान् अपहृतवती, बहूनि गृहाणि विनष्टानि, मूलभूतसंरचनां च भग्नम् अकरोत्। मम आशा अस्ति यत्, अद्य ये त्रिशयनकक्षयुक्ताः ‘प्री-फैब्रिकेटेड् स्मार्ट् गृहाः’ इत्यस्य आधारशिलाः स्थापिता, ते प्रभावितपरिवाराणां जीवनं पुनः मार्गे स्थापयिष्यन्ति।”
सिन्हा-महोदयः एच्.आर्.डी.एस्. इण्डिया इत्यस्य सत्कर्मणः प्रशंसा कृतवान्। सः अवदत्— “यतः एस्.डी.आर्.एफ्. राहत् अपर्याप्ता, अतः पूर्वमेव मया एच्.आर्.डी.एस्. इण्डियाम् प्रति ‘ऑपरेशन् सिन्धूर’ अन्तर्गतं तथा अगस्तमासे जातायां बाढ़ायाम् अनन्तरं सम्पूर्ण-केंद्रशासितप्रदेशे 1500 पूर्णतया विनष्टगृहाणां पुनर्निर्माणाय निवेदनं कृतम्। तेन सहमति: अपि प्रदत्ता। एतत् सोपानं प्रभावितानां परिवाराणां कृते महान् उपशमः भविष्यति।”
प्रत्येकस्य गृहस्य आधारभित्तिः कंक्रीटमयी भविष्यति। तत्र फाइबर्-सीमेण्ट्-बोर्ड्, पाउडर्-कोटेड् जी.आई. शीट्, सी-चैनल्-सेक्शनयुक्तं स्टील्-फ्रेम् इत्यादीनि पूर्वनिर्मित-तन्त्रज्ञानसाधनानि प्रयुज्यन्ते। एते पदार्थाः तेषां दृढता, स्थायित्वं, कठोर-जलवायुपरिस्थितिषु च सहनक्षमता इत्येतस्मात् कारणात् निर्वाचिताः। एतेन क्षेत्रस्य पर्यावरणाय दीर्घकालिकं लचीलत्वं सुस्थैर्यं च सुनिश्चितं भविष्यति। प्रत्येकं पुनर्निर्मितं गृहं ‘स्मार्ट् हाउस्’ इति रूपेण विकसितं भविष्यति, यत्र आरामः, सुरक्षा, कार्यक्षमतायाः कृते च आधुनिक-रचनातत्त्वानि समाविष्टानि भविष्यन्ति।
अस्मिन् अवसरे उपराज्यपालेन सर्वेषां आपत्कालीन-प्रतिकार्यकर्तॄणां, जनपदप्रशासनस्य, सेनायाः, एन्.डी.आर्.एफ्., एस्.डी.आर्.एफ्., आरक्षक-विभागस्य, सशस्त्रबलानां, स्थानीय-समुदायस्य, युवानां, स्वयंसेवी-संघटनानां च प्रति बहुमूल्यजीवनरक्षणे, मचैल्-माता-भक्तानां सुरक्षितनिर्गमने, समयोचितचिकित्सासेवानां च प्रदानस्य कृते कृतज्ञता व्यक्ता।
सः अवदत्— “अहं चिशोती-जनानां अदम्यसाहसम् अभिनन्दामि। प्रकृतिः तान् कठिनया परीक्षया परीक्षितवती, तथापि एषः शक्तिशाली समुदायः तां चुनौतीं धैर्येण स्वीकृतवान्।” उपराज्यपालः पुनः प्रधानमन्त्री नरेंद्र मोदी इत्यस्य मार्गदर्शनस्य अधीनं बाढ़प्रभावितपरिवाराणां सम्पूर्णपुनर्वासाय, किश्तवाड-जनानां विकाससंबन्धिनाम् आवश्यकतानां पूर्तये च आत्मनः प्रतिबद्धतां पुनः व्यक्तवान्।
सः अवदत् यत्, पद्दार्-किश्तवाडयोः आधुनिक-मूलसंरचना-विकासाय भारतसर्वकारेण पद्दारे एकः ‘आर्मी गुडविल् विद्यालयः’ तथा एकः पेट्रोल्-पम्पः अनुमोदितौ। सः उद्घोषितवान् यत् बी.आर्.ओ. (सीमा-मार्ग-संगठन) अथोलीतः मचैल्-माता-मार्गस्य पुनर्निर्माणं करिष्यति, चिशोत्यां च नूतनः सेतुं निर्मास्यते। अतिरिक्तं, दूरवाणी-नेटवर्क् मध्ये ये “ब्लैक्-स्पॉट्” इति निर्दिष्टा, ते सर्वे ज्ञाताः, तथा नवीनान् 4-जी टावर्स् स्थापयितुं बी.एस्.एन्.एल् संस्थायै भूमिः हस्तान्तरीकृता।
स्वस्य यात्रायां सः स्थानिकनिवासिभिः सह संवादं कृतवान्, तेषां समस्याः, अपेक्षाः च श्रुतवान्। सः जनपदप्रशासनं प्रति आदेशं दत्तवान् यत् “मिशन्-युवा” कार्यक्रमेन युवानः स्वव्यवसाय-संधिभिः संयोज्यन्ताम् इति।
सः अवदत् यत्, मचैल्-माता-तीर्थे यात्रिकाणां कृते सुविधावर्धनकार्याणि मई 2026 पर्यन्तं सम्पूर्णानि भविष्यन्ति। सः आश्वासितवान् यत् पद्दारे यात्री-निवास-निर्माणाय अपेक्षितानि सर्वाणि उपायानि गृहीतव्यानि। 14 अगस्त 2025 तिथौ चिशोत्यां ये प्राणान् त्यक्तवन्तः, तेषां स्मृत्यर्थं द्विनिवेशकालं मौनं धृतम्।
जम्मू-कश्मीर- विधानसभायां विपक्षनेता सुनील-शर्मा, पद्दार्-नागसेनी-क्षेत्रस्य विधायकः, शगुन-परिहारः, एच्.आर्.डी.एस्. इण्डियायाः अध्यक्षः श्रीमठ्-स्वामी आत्मा-नम्बी, उपराज्यपालस्य प्रधानसचिवः डा. मन्दीप् भण्डारी, जम्मू-संभागीयायुक्तः रमेशः कुमारः, डी.के.आर्. क्षेत्रस्य डी.आई.जी. श्रीधर-पाटिलः, किश्तवाडस्य उपायुक्तः पंकज-शर्मा, एच्.आर्.डी.एस्. इण्डियायाः संस्थापक-सचिवः प्रतिनिधिः अजीः कृष्णन्, वरिष्ठ-अधिकारी, गण्यमान्यनागरिकाः, विविध-क्षेत्रेषु जनाः च शिलान्यास-समारोहे उपस्थितवन्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani