Enter your Email Address to subscribe to our newsletters

दुर्गम्–रायपुरम् ,03 नवम्बरमासः (हि.स.)।
प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वास्थ्यावस्थायाः विषये सूचना प्राप्ता, ततः छत्तीसगढ़राज्यस्य प्रशासनं सजगं जातम्। सोमवारे पद्मश्री–पद्मविभूषणसम्मानिता 80 वर्षीया पण्डवानीगायिका तीजनबाई रायपुरस्थिते चिकित्सालये प्रवेशिता ।
प्रशासनैः सतर्कतया गनियारीग्रामात् ताम् आनयित्वा चिकित्सालये स्थापनं कृतम्। तस्याः स्वास्थ्यावस्था अत्यन्तं दूषिता आसीत्, तस्मात् वैद्यसंघः सह उपस्थितः। शनिवासरे प्रधानमन्त्रिणा रायपुरयात्रायां तस्याः स्वास्थ्यवृत्तान्तः पृष्टः आसीत्।
गतद्व्यवर्षेभ्यः 80 वर्षया तीजनबाई इत्यस्य पक्षाघातग्रस्तत्वेन गंभीररूपेण व्याधितास्था। ज्येष्ठपुत्रस्य आकस्मिकमृत्युः आघातात् सा शय्यायामेव स्थितवती अस्ति। उपचारव्ययेन आर्थिकसंकटे च पीड्यमानायाः तस्याः परिवाराय वर्तमानसायसर्वकारेण पूर्वमेव पञ्चलक्षरूप्यकाणां साहाय्यराशिः प्रदत्ता आसीत्। तस्मिन्नेव मध्ये तां वृत्तिं वेतनं तकनीकदोषात् स्थगितम् आसीत्। ततः सायसर्वकारेण अधिकारिणः प्रति आदेशः दत्तः, दीर्घकालानन्तरं पुनः वृत्तिं प्रदानं आरब्धम्।
उल्लेखनीयं यत् 01 नवम्बरमासे छत्तीसगढराज्यप्रवासे प्रधानमन्त्रिणा नरेन्द्रमोदिना तीजनबाई इत्यस्य स्नुषया सह दूरवाण्या वार्तालापः कृतः, तस्याः स्वास्थ्यस्य विषये सूचना अपि प्राप्ता। ततः अनन्तरं जनपदाधिकारिभिः सहिताः स्वास्थ्याधिकारिणां दलानि तस्याः गृहं शीघ्रं प्राप्तवन्ति, तत्र तस्याः स्वास्थ्यपरीक्षणं कृतम्। ततः तस्या रोगगौरवं दृष्ट्वा सायसर्वकारेण दुर्गजनपदाधिकारिणः प्रति आज्ञा दत्ता, यत् तस्याः यथोचितचिकित्सा क्रियेत। अधुना तां रायपुरस्थे एम्स् चिकित्सालये नियुक्तवती अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani