Enter your Email Address to subscribe to our newsletters

रियादनगरात् , 03 नवम्बरमासः (हि.स.)।
सौदी-अरबस्य राजधानी-नगरं रियाद् इत्यस्मिन् सुवैदी-उद्याने ‘ग्लोबल् हार्मनी’ इत्यस्य समारोहस्य द्वितीयं संस्करणं रविवासरे उद्घाटितम्। अस्य संस्करणस्य आरम्भः ‘इण्डिया-वीक’ इत्यनेन अभवत्।
सौदी-अरबस्य माध्यममन्त्रालयेन प्रकाशिते निवेदने उक्तम् यत्, अस्मिन् वर्षे माध्यममन्त्रालयः ‘जनरल् एन्टरटेनमेण्ट् अथॉरिटी’ इत्यनेन सह मिलित्वा ‘रियाद् सीजन्’ नाम्नि उत्सवे विविधाः सांस्कृतिकाः मनोरञ्जनकार्यक्रमाश्च आयोजिता। एतेषां कार्यक्रमाणां आरम्भः ‘इण्डिया-वीक’ इत्यस्मात् कृतः, यस्मिन् भारतीयसमुदायेन दीर्घकालात् सौदी-अरबे दत्तं योगदानं सम्मान्यते स्म।
अस्मिन् अवसरे सङ्गीतनृत्यभोजनकला-परम्परागत-हस्तशिल्पादिभिः माध्यमैः भारतस्य समृद्धा संस्कृति: अपि प्रदर्शिता भविष्यति। अस्मिन्नेव समये अनेकाः भारतीयमाध्यमप्रतिनिधयः, कलाकाराः, सांस्कृतिकव्यक्तयश्च भागं गृह्णिष्यन्ति, ये द्वयोः देशयोः मध्ये विद्यमानान् सांस्कृतिकसम्बन्धान् विषये स्वमतं प्रकाशयिष्यन्ति।
एतस्मिन् मध्ये सौदी-अरबे भारतस्य राजदूतः डॉ॰ सुहैल् अज़ाज़् खान् इत्याख्यः अस्य आयोजनस्य प्रशंसा कृत्वा उक्तवान् यत् २०२४ तमे वर्षे सम्पन्नस्य आयोजनस्य सफलतां दृष्ट्वा अस्य वर्षस्य कार्यक्रमः अतिविस्तृतः च भव्यः च भविष्यति। अस्मिन् भारतीयसङ्गीतनृत्यभोजनहस्तशिल्पानां मनोहरं प्रदर्शनं भविष्यति, यस्मिन् प्रसिद्धा भारतीयकलाकाराः भागं ग्रहीष्यन्ति।
भारतीयराजदूतः माध्यममन्त्रालयस्य जनरल् एन्टरटेनमेण्ट् अथॉरिटिश्च प्रति कृतज्ञतां व्यक्त्वा अवदत् यत् एते विभागाः ‘ग्लोबल् हार्मनी’ इत्यस्य उपक्रमस्य माध्यमेन विभिन्नसंस्कृतीनां मध्ये परस्परसम्बन्धं सौहार्दं च वर्धयन्ति। एषा प्रयासः सांस्कृतिकैक्यस्य, परस्परसमीप्यस्य, भारत-सौदी-अरबयोः प्राचीनस्य दृढस्य सम्बन्धस्य पुनः सुदृढीकरणस्य च एकः प्रशंसनीयः प्रयासः अस्ति।
उल्लेखनीयं यत् ‘ग्लोबल् हार्मनी’ इत्यस्य उपक्रमस्य अन्तर्गतं सौदी-अरबदेशे चतुर्दशदेशानां विविधसंस्कृतयः उत्सवस्वरूपेण आचर्यन्ते, येषु भारतः, फिलिपीन्स्, इण्डोनेशिया, मिस्रदेशः, यमनः, जोर्डनः, युगाण्डा, इथियोपिया इत्यादयः देशाः सम्मिलिताः सन्ति। एतेषु कार्यक्रमेषु सङ्गीत-समारम्भाः, पर्यटन-प्रदर्शनानि, पारिवारिक-सांस्कृतिक-क्रियाः, पारम्परिक-भोजन-हस्तशिल्प-प्रदर्शनानि च आयोजितानि भविष्यन्ति, यत्र प्रत्येकं देशः समुदायश्च भागं ग्रहिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani