Enter your Email Address to subscribe to our newsletters

रायपुरम् 3 नवंबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य स्थापनेः रजतजयंतीसमये आयोजिते भव्यराज्योत्सवे द्वितीये दिने रविवासरे सायं बिलम्बेन यावत् बोलिवुड्गीतसङ्गीतैः सह छत्तीसगढ़स्य लोककलाया: सङ्गीतस्य च नृत्यस्य च यथा रमणीयरञ्जनमभवत्, तथा सायं सुरमयी जाता। सतरङ्गिच्छटायां गीतानां यथा सभा सज्जिता, तथा सर्वे गायतः, गुनगुनयन्तः, नृत्यन्तश्च दृष्टाः। सायं सन्ध्यायाम् गीतसङ्गीतस्य वर्धमानप्रवाहे प्रथमं छत्तीसगढ़ीयसुरतालैः दर्शकश्रोते आन्दोलिता अभवन्। प्रसिद्धः छत्तीसगढ़ीयगायकः सुनील तिवारी स्वदलेन सह लोकगीतैः परम्परायाः आधुनिकतायाश्च संगमेन सजीवां सांस्कृतिकसन्ध्यां प्रदर्श्य दर्शकानां हृदये गाढं प्रभावं न्यवर्तयत्। एवमेव गीतसङ्गीतयुतायां सभायां बोलिवुड्पार्श्वगायकः आदित्यनारायणः गीतैः श्रोतॄन् मंत्रमुग्धान् कृतवान्।
कार्यक्रमस्य आरम्भः प्रसिद्धलोकगायकस्य सुनीलतिवारिणः प्रस्तुतेः अभवत्। राज्यालङ्करणं चक्रधरकलासम्मानं (२०२१) प्राप्तवान् तिवारी स्वस्य लोकगायनद्वारा दर्शकान् मंत्रमुग्धान् कृतवान्। यदा सः “मोर भाखा के संग दया मया के सुघ्घर हवे मिलाप रे” इति तथा “अइसन छत्तीसगढ़िया भाखा कौनो संग” इति गानं गायत्, तदा सम्पूर्णं दर्शकदीर्घं तालिप्रणादेन निनादितम्। लोकगीतानां लड्याम् राऊत, राजगीत, ददरिया, सोहर, विवाह, पन्थी, होली इत्यादिगीतैः सह तेन छत्तीसगढ़स्य भूमेः गन्धः प्रसारितः।
तस्य गीतानि “पता ले जा रे गाड़ी वाला...”, “अरपा पैरी के धार...”, “मोर संग चलव रे...” इत्यादयः दर्शकान् तस्मिन् लोकोसङ्गीतजगति नीतवन्तः, यत्र परम्परा, भावना, माटी च एकीभवन्ति। सामूहिककर्मानृत्यद्वारा “गोल्डन बुक ऑफ वर्ल्ड् रेकॉर्ड्” मध्ये नाम लेखितवान् श्रीतिवारी स्वस्य प्रस्तुतेः लोकगायनस्य गौरवं नूतनशिखरे स्थापयामास।
“चिन्हारी - द गर्ल बैंड” इति बृन्दस्य प्रस्तुतेः तेजः ववृधे।
तत: जयश्री नायर, मेघा ताम्रकार च ‘चिन्हारी - द गर्ल बैंड्’ इत्यस्य रूपेण मंचे आगत्य स्वस्य ऊर्जस्वलप्रदर्शनैः राज्योत्सवे नूतनताजं सञ्चारितवन्तौ। तयोः गायने यत्र लोकधुनानाम् आत्मा आसीत्, तत्र सङ्गीतसंयोजने आधुनिकताया: झलकापि। बृन्दस्य प्रस्तुतेः सन्देशः आसीत्—परम्परा नवाचारस्य च संगम एव अद्यतनयुगस्य नूतनपरिचयः अस्ति। दर्शकैः तालिप्रणादेन उत्साहेन च तयोः स्वागतं कृतम्।
सांस्कृतिकसन्ध्यायां बोलिवुड्प्रसिद्धगायकः आदित्यनारायणः “पापा कहते हैं बड़ा नाम करेगा...”, “पहला नशा... पहला खुमार...”, “बिन तेरे सनम...”, “जो तुम न हो...”, “अपना बना लो पिया”, “केशरिया इश्क है तेरा”, “वादा रहा सनम...”, “ये काली-काली आँखे...”, “कोई मिल गया, मेरा दिल गया...”, “जाने जा...”, “मैं निकला गड्डी लेके...” इत्यादिगीतानां प्रस्तुतेः वातावरणं हर्षमयम् अकरोत्, दर्शकैः च बहुधा ताल्यः प्रापिताः।
तस्य संवादशैली, हावभाव, जीवद्भावयुक्तं अभिनयं च सङ्गीतस्य गाम्भीर्यं दर्शकानां पुरतः साक्षात्कृतवन्ति। कार्यक्रमस्य अन्त्यभागे पद्मश्री डोमारसिंहकंवरस्य नाचा-प्रस्तुतिः राज्योत्सवे ऊर्जा-उल्लासयोः वातावरणं निर्मितवती। तस्य नाट्यशैली, छत्तीसगढ़ीयहावभावयुक्ता प्रस्तुति च दर्शकान् लोककलायाः गाम्भीर्येन सम्बद्धान् कृतवती। नाचस्य पारम्परिकछाया तथा लोकसंस्कृतेः जीवन्तता राज्योत्सवमञ्चं अविस्मरणीयं कृतवती।
राज्योत्सवस्य एषा सन्ध्या छत्तीसगढ़स्य लोकसंस्कृत्या, सङ्गीतेन, कलात्मकवैभवेण च सह बोलिवुड्गीतानाम् आनन्दमयप्रस्तुत्या राज्यस्य गौरवपूर्णोत्सवः जातः। उपस्थितदर्शकाः प्रतिप्रस्तुतौ तालीप्रहारेण स्वां प्रसन्नतां प्रकटयामासुः। सा सांस्कृतिकसन्ध्या केवलं कार्यक्रमः नासीत्, अपितु छत्तीसगढ़स्य पञ्चविंशतिवर्षाणां सांस्कृतिकयात्रायाः सजीवदस्तावेजः अभवत्, यत्र प्रतिगीतं, प्रतिनृत्यं, प्रतितालं च राज्यस्य समृद्धां कला-संस्कृतिं दर्शयामास।
हिन्दुस्थान समाचार / अंशु गुप्ता