Enter your Email Address to subscribe to our newsletters

अमिताभबच्चनस्य नातिः अगस्त्यनन्दः पुनः एकवारं चर्चावर्तः जातः अस्ति। तस्य बहुप्रतीक्षिता चलचित्रम् ‘इक्कीस्’ इति नाम्ना जनमानसेषु उत्साहं उत्पादयति। गतसप्ताहे प्रकाशितः अस्य चलचित्रस्य अग्रचित्रांशः चलचित्रप्रेमिणां हृदयेषु उत्साहं संजग्राह। अधुना तु निर्मातृभिः अस्य विमोचनतिथिः अपि प्रकाशिताऽस्ति।
क्रिसमस् दिने निनादिष्यति ‘इक्कीस्’ इति युद्धगर्जनम्
‘इक्कीस्’ इति चलचित्रं अस्य वर्षस्य क्रिसमस्दिने, अर्थात् २५ दिसम्बर् २०२५ तमे दिने, विश्वस्य सर्वत्र चलचित्रगृहेषु प्रदर्शितं भविष्यति। अस्य निर्माणकर्त्ता दिनेश् विजान् नामकः, निर्देशकः च सुप्रसिद्धः चलचित्रनिर्माता श्रीरामराघवनः अस्ति, यः स्वस्य थ्रिलर् तथा भावनात्मककथनशैलीभ्यां प्रसिद्धः अस्ति।
सत्यवीर्ये आधारितं कथानकं
‘इक्कीस्’ केवलं चलचित्रं नास्ति, अपितु साहसबलिदानयोः सत्यकथाम् आविष्करोति। अस्याः कथा १९७१ तमे वर्षे भारतपाकस्थानयोः युद्धकाले लब्धेषु तेषु रणेषु आधारिताऽस्ति, येन भारतीयसेनायाः इतिहासे अमराः पृष्ठाः लिखिताः। अस्मिन् चलचित्रे द्वितीयलेफ्टिनण्ट् अरुणखेत्रपालस्य जीवनकथा प्रदर्श्यते, ये परमवीरचक्रेण तस्य अदम्यसाहसस्य कारणात् सम्मानिताः आसन्। एषा फिल्म् केवलं युद्धभूमेः घोषं न दर्शयति, किन्तु तं भावनात्मकसंघर्षं अपि निरूपयति, यं सैनिकः स्वकर्तव्यपरिवारयोः मध्ये अनुभवन्ति।
‘द आर्चीज्’ इति चलचित्रे स्वीयं अभिनयजीवनं आरब्धवान् अगस्त्यनन्दः अस्मिन् चलचित्रे गम्भीरं सशक्तं च पात्रं निर्वहतः दृश्यते। तेन सह अक्षयकुमारस्य भगिनीपुत्री सिमरभाटिया अपि दृश्यते, या अस्यैव चलचित्रेण स्वं बॉलीवुड् अभिनयजीवनं आरभते। तथा च वरिष्ठो अभिनेता धर्मेन्द्रः जयदीपअहलावतः च अस्मिन् चलचित्रे महत्वपूर्णानि पात्राणि निर्वहन्ति, येन एषः युद्धनाटकप्रकारः अत्यधिकं प्रभावशालीजातः।
हिन्दुस्थान समाचार