Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 03 नवंबरमासः (हि.स.)।आयुषमन्त्रालयेन विशेषअभियानं 5.0 इति नाम्ना देशव्यापकेषु कार्यालयेषु स्वच्छताअभियानम् आयोजितम्। तेन अभियानप्रक्रमेण जर्जरवस्तूनि विक्रय्य सप्तलक्षत्रिंशच्छत्तरूप्यकाणि (७ लाख ३५ सहस्ररूप्यकाणि) राजस्वरूपेण प्राप्तानि। अभियानकाले १३६५ वर्गफुटपरिमितं कार्यालयप्रदेशं रिक्तीकृतम्, ६५८ जनशिकायतानां ५९ अपीलानां च निवारणं कृतम्, सह १०१ प्राचीनप्रलेखाः अपसारिताः।
मन्त्रालयस्य अनुसारम् एतत् अभियानम् २ अक्टूबरात् ३१ अक्टूबरपर्यन्तं प्रवृत्तः, यस्य उद्देश्यं प्रशासनिककार्यानां सुलभीकरणम्, अभिलेखव्यवस्थापनस्य सुधारः, सरकारीकार्यालयेषु स्थायीस्वच्छतायाः सुनिश्चितिः च आसीत्। सांसदेभ्यः प्राप्ते द्वे समस्ये अपि समाधानं प्राप्ते।
देशव्यापकेषु आयुषसंस्थानषु अष्टषष्टिः (६८) स्वच्छताअभियानानि आयोजितानि, यत्र अधिकारीणां कर्मचारिणां च सक्रियं सहभागित्वं आसीत्।
आयुषमन्त्रालयेन निर्दिष्टं यत् वरिष्ठाः अधिकारिणः आयुषभवनं सहितानि प्रमुखकार्यालयानि गत्वा स्वच्छताक्रियां नेतृत्वेन सम्पन्नाम् अकुर्वन्।
---------------
हिन्दुस्थान समाचार