पञ्चदशे नवम्बरदिनाङ्के आरभ्यते अन्ताराष्ट्रियगीतामहोत्सवः - नायब–सैनी
प्रधानमन्त्री २५ नवम्बरदिनाङ्के कुरुक्षेत्रं आगमिष्यन्ति।प्रथमवारं एकविंशतिदिनपर्यन्तं भविष्यति आयोजनम्।अस्मिन् वर्षे मध्यप्रदेशः भागी–राज्यरूपेण भविष्यति। चण्डीगढनगरम् 03 नवम्बरमासः, हि.स.)।हरियाणाराज्यस्य मुख्यमन्त्री नायबसैनी उक्तं यत् अस्य वर्
हरियाणा के मुख्यमंत्री नायब सैनी गीता जयंती समाराेह का ऐलान करते हुए


प्रधानमन्त्री २५ नवम्बरदिनाङ्के कुरुक्षेत्रं आगमिष्यन्ति।प्रथमवारं एकविंशतिदिनपर्यन्तं भविष्यति आयोजनम्।अस्मिन् वर्षे मध्यप्रदेशः भागी–राज्यरूपेण भविष्यति।

चण्डीगढनगरम् 03 नवम्बरमासः, हि.स.)।हरियाणाराज्यस्य मुख्यमन्त्री नायबसैनी उक्तं यत् अस्य वर्षस्य पञ्चदशे नवम्बरमासे कुरुक्षेत्रे दशमः अन्ताराष्ट्रियगीताजयंतीमहोत्सवः आयोजितः भविष्यति।एषः प्रथमः अवसरः यदा एतत् आयोजनं एकविंशतिदिनपर्यन्तं प्रवर्तिष्यते।

सोमवासरे चण्डीगढे पत्रकारैः सह संवादे मुख्यमन्त्रिणा गीताजयंतीसमारोहस्य औपचारिक–घोषणा कृता।तत्र सः अवदत् यत् अस्मिन् वर्षे मध्यप्रदेशराज्यं भागीराज्यरूपेण सम्मिलितं भविष्यति, तस्मात् तत्र पृथक् मण्डपं निर्मीयते।तत्र आगत्य जनाः मध्य–प्रदेशस्य संस्कृतिं, आहार–विहारं च ज्ञास्यन्ति।

मुख्यमन्त्रिणा अपि उक्तं यत् सन् २०१४ तमे वर्षे प्रधान–मन्त्रिणा नरेन्द्रमोदिना कुरुक्षेत्रं गीता–स्थलीरूपेण घोषिता आसीत्।तदनन्तरं सन् २०१६ तमे वर्षे आरभ्य राज्यसर्वकारा गीता–जयंतीं राष्ट्रिय–अन्ताराष्ट्रीय–स्तरयोः उत्सव–रूपेण आचरति।भगवता श्रीकृष्णेन महाभारत–युद्धे अर्जुनाय यत् गीता–उपदेशः दत्तः, तस्मात् अद्य पञ्चसहस्र–त्रिशत्–त्रिषष्टिवर्षाणि यान्ति इति सः अवदत्।

प्रतिवर्षं श्रद्धालूनां संख्या वर्धमाना अस्ति, तस्मात् व्यवस्थायाः विस्तारः अपि क्रियते।चतुर्विंशतितमे नवम्बरमासे ब्रह्म–स्वरोवरे गीता–यज्ञः पूजनं च भविष्यति, यतः महोत्सवस्य शुभारम्भः भविष्यति। पञ्चविंशतितमे नवम्बरमासे प्रधानमन्त्री नरेन्द्रमोदी कुरुक्षेत्रं आगत्य गुरुतेगबहादुरजीशहीदी–समागमस्य समापनं च गीताजयंतीसमारोहं च उपस्थास्यन्ति।

एन.आइ.डी., आयुषविश्वविद्यालये, कुरुक्षेत्रविश्वविद्यालये च गीतासंगोष्टी भविष्यन्ति।षड्विंशतितः त्रिंशतितः नवम्बरमासपर्यन्तं पद्मविभूषित–रामभद्राचार्यमहाभागेन जी.आइ.ई.ओ.–गीतासंस्थायाः तत्वावधानें कथा–वाचनं भविष्यति। त्रिंशतितमे नवम्बरमासे अखिलभारतीयज्ञानसंमेलनं च कुरुक्षेत्रविश्वविद्यालये सीनट्–हॉल् मध्ये भविष्यति, यत्र बहवः राष्ट्रान्तर–प्रतिनिधयः भागं ग्रहीष्यन्ति।

पञ्चदशे नवम्बरात् पञ्चमे दिसम्बरमासपर्यन्तं ब्रह्मस्वरोवर–तटे महा-आरती भविष्यति। पञ्चविंशतितः एकस्मात् दिसम्बरपर्यन्तं अष्टचत्वारिंशत्कोश–भूमिषु सांस्कृतिककार्यक्रमाः भविष्यन्ति। एकस्मिन् दिसम्बरमासे गीतायज्ञः भागवतकथा च भविष्यतः।तस्मिन्नेव दिने विषय–उद्याने कुरुक्षेत्रे अष्टादशसहस्र–विद्यार्थिनः एकत्र समागत्य गीता–पाठं करिष्यन्ति।

अस्मिन्नेव दिवसे 182 तीर्थेषु दीपोत्सवः भविष्यति।

अष्टाविंशतितमे नवम्बरमासे आरभ्य राज्यस्य सर्वेषु जनपद–मुख्यालयेषु गीताजयंतीकार्यक्रमाः आयोजिताः भविष्यन्ति।एकस्मिन् दिसम्बरे गीताशोभायात्रा च आयोजिताः भविष्यन्ति।तस्मिन्नेव दिवसे प्रत्येक–जनपदे 1800 विद्यार्थिनः एकस्मिन्नेव काले गीता–वैश्विक–पाठं करिष्यन्ति।

विदेशमन्त्रालयस्य सहभागः अपि अस्मिन् वर्षे

मुख्यमन्त्री नायब–सैनी अवदत् —विदेश–मन्त्रालयस्य सहयोगेन अस्मिन् वर्षे इंडोनेशिया, कनाडा, अमेरिका–देशेषु च गीताजयंतीसमारोहाः सम्पन्नाः।अस्मिन् वर्षे कुरुक्षेत्र–विश्वविद्यालये त्रिदिवसीय अन्ताराष्ट्रीयगीतागोष्ठी आयोजिताः भविष्यन्ति।तत्र षोडश–देशेषु स्थिताः पञ्चविंशतिः विद्वांसः भारत–सर्वकारस्य विदेशमन्त्रालयमाध्यमेन सहभागी भविष्यन्ति।

सर्वेऽपि ५१ देशेषु गीताजयंतीमहोत्सवाः आयोजिताः भविष्यन्ति, येषां प्रत्यक्ष–प्रसारणं अपि भविष्यति।विदेश–मन्त्रालयेन विभिन्न–देशेषु अनूदितगीताप्रदर्शनानि अपि प्रदर्श्यन्ते।

हिन्दुस्थान समाचार / Dheeraj Maithani