Enter your Email Address to subscribe to our newsletters

चंडीगढनगरम्, 3 नवंबरमासः (हि.स.)। हरियाणायाः मुख्यमंत्री नायब्–सैनी–महाशयेन भारतीयमहिलाक्रिकेटदलस्य सदस्यायाः, हरियाणायाः क्रीडिकायाः शैफालीवर्मायै तस्याः उत्कृष्टप्रदर्शनस्य कारणेन अभिनन्दनं प्रदत्तम्।
सोमवासरे चण्डीगढे महाशयः उक्तवन्तः — भारतीय–महिला–क्रिकेट–दलस्य विश्व–चैम्पियनत्वेन अस्माकं देश–कन्याः प्रदर्शितवन्ति यत् ते कस्यचित् तुल्यं न भवेयुः। अस्य विजयस्य प्रवर्तकः हरियाणायाः कन्या शैफाली आसीत्, या ८७–रणानि कृत्वा द्वौ विकेट् अपि अर्जितवती। नायबसैनी उक्तवान् यत् पूर्वमेव हरियाणायाः कन्याः विविध–क्रीडासु स्वसिद्धिं प्रदर्शयित्वा ध्वजं स्थापयन्ति स्म। अद्य शैफाली–वर्मायाः नाम्ना हरियाणा–देशः क्रीडायाः माध्यमेन अन्तरराष्ट्रियख्यातिं प्राप्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता