Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 03 नवंबरमासः (हि. स.)।केन्द्रीयपूर्वोत्तरप्रदेशविकासमन्त्रिणा ज्योतिरादित्यसिंधियेन सोमवारे भारतीयप्रौद्योगिकीसंस्थानगुवाहाटीमध्ये उत्तरपूर्वविज्ञानप्रौद्योगिकीसमूहः उद्घाटितः कृतः। तेन असमराज्ये षट्त्रिंशदधिकत्रिशत् पंचत्रिंशद् कोट्यधिकरूप्यकाणां विकासपरियोजनानां शिलान्यासः अपि कृतः।
केन्द्रीयसंचारमन्त्रालयस्य अनुसारं सिंधियेन पञ्चषष्टिनवमाध्यमिकविद्यालयभवननिर्माणम्, चायग्राम–उकिउम् मार्गस्य उन्नयनम्, सिलोनिजन–धनसिरीतीरस्थे आरसीसीपुलस्य निर्माणम्, कोकराझारबक्साजिल्योर् औद्योगिकपरिसरविकासश्च इत्येवं परियोजनानां शिलान्यासः कृतः।
मन्त्रालयेन उक्तं यत् भारतीयप्रौद्योगिकीसंस्थानगुवाहाटीमध्ये द्वाविंशतिदशांश अष्टानवतिः कोट्यधिकरूप्यकव्ययेन संस्थापितः एनईएसटीसमूहः उत्तरपूर्वप्रदेशस्य नवोन्मेषपर्यावरणस्य केन्द्ररूपेण भविष्यति। सः समूहः चतुर्षु प्रमुखक्षेत्रेषु — स्थानिकनवोन्मेषे, अर्धचालककृत्रिमबुद्धितन्त्रे, वंशु (बाँस) आधारिततन्त्रज्ञानिषु, जैवप्लास्टिके च कार्यं करिष्यति।सिंधियेन तस्मिन्नेव अवसरान्तरे जैवअपघटनीयखिलौटनिर्माणे प्रशिक्षिताः त्रिंशत् ग्राम्यनार्यः सम्मानिताः। ताभ्यः स्वसूक्ष्मउद्योगस्थापनाय सततसहाय्यं दास्यते इति सः उक्तवान्। तेन एनईएसटीसमूहस्य प्रतीकचिह्नम् अपि अनावरणं कृतम्, यत् ताभिरेव ग्राम्यनारिभिः निर्मितम्।
मन्त्रिणा उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे पूर्वोत्तरप्रदेशः अधुना भूम्या परिवृतप्रदेशः न सन् भूम्याः सह संलग्नः भविष्याभिमुखप्रदेशः जातः।
सः बोगीबीलसेतुं, भूपेन्हजारिकासेतुं, सेलासुरंगं, जोगीघोपाबहुमार्गीयवाहनपार्कं च निर्दिश्य उक्तवान् यत् एते सर्वे असमराज्यस्य सम्पर्कव्यवस्थां नूतनमायामं नयन्ति।
अस्मिन् कार्यक्रमे असमराज्यसर्वकारस्य वरिष्ठाः अधिकारिणः, शिक्षणसंस्थानप्रतिनिधयः, वैज्ञानिकसमुदायस्य सदस्याश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार