संघशताब्दीवर्षे बेलदायां विशिष्ट नागरिक सम्मेलनस्य भव्यम् आयोजनम्
पश्चिम मेदिनीपुरम्, 03 नवम्बरमासः (हि. स.)।राष्ट्रियस्वयंसेवकसंघस्य स्थापने शतवर्षपूरणस्य अवसरं प्रति रविवासरस्य सायंकाले पश्चिममेदिनीपुरजिलायाः बेलदानगरमध्ये एकं भव्यं विशिष्टनागरिकसम्मेलनं आयोजितम् आसीत्। अस्मिन् कार्यक्रमे कुलं २३१ नागरिकाः सहभा
संघ का विशिष्ट नागरिक सम्मेलन बेलदा में संपन्न हुआ


पश्चिम मेदिनीपुरम्, 03 नवम्बरमासः (हि. स.)।राष्ट्रियस्वयंसेवकसंघस्य स्थापने शतवर्षपूरणस्य अवसरं प्रति रविवासरस्य सायंकाले पश्चिममेदिनीपुरजिलायाः बेलदानगरमध्ये एकं भव्यं विशिष्टनागरिकसम्मेलनं आयोजितम् आसीत्। अस्मिन् कार्यक्रमे कुलं २३१ नागरिकाः सहभागीभूताः, तेषु २१० पुरुषाः २१ मातृशक्त्यः च आसन्।

कार्यक्रमस्य मुख्यातिथिः आसीत् ठाकुरदासाधिकारिणः (विभागसंघचालकः)। विशिष्टातिथयः आसीत् आशीषपानः (जिलासंघचालकः), मृत्युंजयजानः (शिक्षकः), डॉ प्रणवकुमारबरः (घाटालमहाविद्यालयस्य प्राध्यापकः) इति, ये सर्वे मंचे उपविष्टाः आसन्।

सम्मेलनस्य शुभारम्भः मंगलगीतेन दीपप्रज्वलनेन च अभवत्। उद्घाटनसत्रे संघस्य शतवर्षपर्यन्तं प्रेरणादायिनी यात्रा, समाजे तस्य भूमिका, संगठनात्मककार्याणि च विस्तीर्णरूपेण चर्चितानि।

मुख्यातिथिना ठाकुरदासाधिकारिणा प्रेरणादायकं भाषणं दत्तम्। सः उक्तवान् — “राष्ट्रनिर्माणं न तु एकदिनस्य कार्यं, अपि तु सततं साधनारूपं यत्नं भवति। संघस्य स्वयंसेवकाः समाजस्य सर्वेषु वर्गेषु सेवा संस्कार संगठनच माध्यमेन राष्ट्रं सशक्तं कुर्वन्ति। संघः केवलं शाखा वा कार्यक्रमः नास्ति, किन्तु भारतस्य सांस्कृतिकजागरणस्य एकं महद्विशालं आन्दोलनम् अस्ति।”

सः पुनरपि अवदत् — “यदा प्रत्येकनागरिकः स्वान्तःकरणे सेवाभावं राष्ट्रभावं च विकसितं करिष्यति, तदा एव सत्यर्थे ‘स्वावलंबी आत्मनिर्भर भारतस्य’ निर्माणं संभविष्यति।”

विशिष्टातिथिः डॉ प्रणवकुमारबरः अवदत् — “संघः समाजं संगठयितुं निरन्तरं प्रयासं करोति। युवा पीढिः संघस्य आदर्शेभ्यः प्रेरणा गृहित्वा राष्ट्रहितकार्येषु अग्रसरितुं यतेत।”

अन्ते राष्ट्रगानगायनेन कार्यक्रमस्य समापनं जातम्। अस्मिन् अवसरि बहुसंख्यकाः स्वयंसेवकाः समाजसेविनः शिक्षाविदः स्थानीयनागरिकाश्च उपस्थिताः आसन्, सर्वे च राष्ट्रियैक्यभावसेवाभावयोः प्रति स्वसंकल्पं पुनरावर्तितवान्।

हिन्दुस्थान समाचार