संसदस्य शीतकालीन सत्रतः प्रथमं सर्वदलीयोपवेशनम् अद्य
नव दिल्ली, 30 नवंबरमासः (हि.स.)। सोमवासरे आरभ्यमाणस्य संसदस्य शीतकालीनसत्रस्य पूर्वं रविवासरे अद्य सर्वदलीयसभा आहूता अस्ति। अद्य प्रातः एकादशवादने भविष्यति अस्मिन् सर्वदलीयसभासभायां संसदीयकार्यमन्त्री किरेन रिजिजू उभयसभा सदस्यैः सह मिलित्वा चर्चा
संसदस्य शीतकालीन सत्रतः प्रथमं सर्वदलीयोपवेशनम् अद्य


नव दिल्ली, 30 नवंबरमासः (हि.स.)।

सोमवासरे आरभ्यमाणस्य संसदस्य शीतकालीनसत्रस्य पूर्वं रविवासरे अद्य सर्वदलीयसभा आहूता अस्ति। अद्य प्रातः एकादशवादने भविष्यति अस्मिन् सर्वदलीयसभासभायां संसदीयकार्यमन्त्री किरेन रिजिजू उभयसभा सदस्यैः सह मिलित्वा चर्चां करिष्यन्ति। ते लोकसभाया राज्यसभायाश्च सुचारुरूपेण संचालनार्थं सदस्येभ्यः सहयोगं याचिष्यन्ति।

एकोनविंशतिदिसंबरपर्यन्तं चलिष्यति यत् संसदस्य शीतकालीनसत्रं तस्मिन् काले सरकारः दश महत्वपूर्णविधेयानि उपस्थापयितुं सज्जा अस्ति, यस्मिन् परमाणु उर्जा क्षेत्रसम्बद्धविधेयानि उच्चशिक्षासुधारसम्बद्धविधेयानि च अन्तर्भवन्ति। विपक्षपक्षस्य तु एसआईआर इत्यादिविषयान् आश्रित्य सरकारं परिवेष्टुं सज्जता दृश्यते।

---------------

हिन्दुस्थान समाचार