सर्वदलीयोपवेशने विपक्षः उत्थापितवान् देशस्य सुरक्षायाः लोकतंत्रस्य च तथ्यम्
नवदिल्ली, 30 नवंबरमासः (हि.स.)। शीतकालीनसत्रस्य आरम्भात् पूर्वं सम्पन्नायां सर्वदलीयबैठकायां विपक्षपक्षेण अद्य शासनस्य समक्षं देशस्य सुरक्षा, लोकतन्त्रे, तथा संस्थागतढांचे इत्यादिषु कथितेषु प्रहारविषयेषु चर्चा कृता। लोकसभायां कांग्रेसपक्षस्य उपन
सर्वदलीयोपवेशने विपक्षः उत्थापितवान् देशस्य सुरक्षायाः लोकतंत्रस्य च  तथ्यम्


नवदिल्ली, 30 नवंबरमासः (हि.स.)।

शीतकालीनसत्रस्य आरम्भात् पूर्वं सम्पन्नायां सर्वदलीयबैठकायां विपक्षपक्षेण अद्य शासनस्य समक्षं देशस्य सुरक्षा, लोकतन्त्रे, तथा संस्थागतढांचे इत्यादिषु कथितेषु प्रहारविषयेषु चर्चा कृता।

लोकसभायां कांग्रेसपक्षस्य उपनेता गौरव गोगोई पत्रकारान् संबोधयन् शीतकालीनसत्रस्य लघुतां प्रति प्रश्नं उद्भावितवन्तः। ते अवदन्—अस्मिन् सत्रे केवलं पञ्चदश बैठकाः भविष्यन्ति, अद्यावधि सम्भवतः एषः अत्यन्तं लघुतमः सत्रः भविष्यति। तेन ज्ञायते यत् सरकारस्य गंभीरता न्यूनतया दृश्यते। सत्रस्य आयोजनं अपि अनावश्यकतया विलम्बितम्। अतः प्रतियति यत् लोकतन्त्रं संसदीयमर्यादा च क्षीणयितुं यत्नः क्रियते।

तेन उक्तं यत् विपक्षपक्षेण सुरक्षाविषयः प्रथमतया उपस्थापितः। दिल्ल्यां जातः बमविस्फोटः देशस्य विधिशासनव्यवस्थायाः विफलतायाः दृष्टान्तः। एतस्मिन्नपि शासनं लघ्वीं चर्चामपि कर्तुं न इच्छति। तद्युक्तं वायुप्रदूषणं कृषकानां मजदूराणां च आमदनी, प्राकृतिकआपदाः—एतानि सर्वाणि चुनौतिरूपेण स्थितानि, शासनं तु तेषां प्रति यथोचितं न करोति।

ते अवदन् यद्देशस्य विदेशनीतिः अपि बाध्यते, अन्यदेशस्य आदेशेनैव रूसदेशात् तेलस्य आयातः निरुद्धः क्रियते। देशे जनानां डाटा अपि सुरक्षितः न वर्तते, कृत्रिमबुद्धेः सम्बन्धे सरकारापि यथासंविदं सज्जा नास्ति।

अन्ते ते अवदन् श्वः कांग्रेसाध्यक्षस्य मल्लिकार्जुनखड्गे इति नेतृत्वे विपक्षदलानि समवेत्य अधुना सत्रस्य विषये आगामीनीतिः निश्चितव्या इति संकल्प्यन्ते।

---------------

हिन्दुस्थान समाचार