मुख्यमंत्री सोनपुर मेलायां विभिन्न विभागानां स्टॉल निरीक्षितम्
सारणम्, 30 नवंबरमासः (हि.स.)।विश्वप्रसिद्धे हरिहरक्षेत्रे सम्पन्ने सोनपुर–मेले रविवासरस्य प्रभाते बिहारराज्यस्य मुख्यमन्त्री नीतीशकुमारस्य आगमनं अभवत्। मुख्यमन्त्रिणा मेळस्य विस्तीर्णं भ्रमणं कृतम्। सः विभिन्नान् सरकारी–असरकारी–स्टॉलान् निरीक्ष्य
Cm


Cm


Cm


Cm


Cm


Cm


सारणम्, 30 नवंबरमासः (हि.स.)।विश्वप्रसिद्धे हरिहरक्षेत्रे सम्पन्ने सोनपुर–मेले रविवासरस्य प्रभाते बिहारराज्यस्य मुख्यमन्त्री नीतीशकुमारस्य आगमनं अभवत्।

मुख्यमन्त्रिणा मेळस्य विस्तीर्णं भ्रमणं कृतम्। सः विभिन्नान् सरकारी–असरकारी–स्टॉलान् निरीक्ष्य तत्रस्थितैः संबंधिताधिकारीभिः सह आवश्यकं विवरणम् अपृच्छत्। एषः दौरोऽतिदुर्दिनकाले अभवत्, यतः ऐतिहासिकः अयं मेला शनैः शनैः स्वम् प्राचीनं वैभवं विहाय संकुचितुं प्रारब्धवान्, येन स्थानीयनां जनानां कला–संस्कृतिसेवनां च मध्ये चिन्ता वर्धिता अस्ति।

मुख्यमन्त्रिणः अस्मिन् भ्रमणे मेळस्य पुनरुत्थानाय नव्य आशा जागृता। नीतीशकुमारः स्वभ्रमणकाले जीविका–दीदी इत्यस्याः स्टॉलं विशेषतया अवलोकितवान्। तासां उत्पादानां आत्मनिर्भरताप्रयत्नानां च प्रशंसा चकार। तस्मात् बहिः अपराध–अनुसन्धान–विभागस्य स्टॉलम् अपि निरीक्षितम्। स्टॉलस्थैः जनैः सः स्वयम् संभाष्य तेषां अनुभवांश्च अपृच्छत्।

अस्मिन् अवसरे जिलाधिकारिणा अमन–समीरेण मुख्यमन्त्रिणे प्रत्येक–स्टॉलस्य विस्तीर्णा सूचना प्रदत्ता। सुरक्षायाः व्यवस्था सारणजनपदस्य पुलिसाधीक्षकः डॉ कुमार–आशीषः अकरोत्।

मुख्यमन्त्रिणा सह मन्त्री अशोक–चौधरी सह अनेके जदयू–नेतारः कार्यकर्तारश्च उपस्थिताः, ये मुख्यमन्त्रिणं स्वागतवन्तः। निरीक्षणस्य अनन्तरं मुख्यमन्त्री नीतीशकुमारः स्वकाफिलेन सह पुनः पटना–नगरं प्रति प्रस्थितः।

मुख्यमन्त्रिणः सोनपुर–मेळ–भ्रमणम् एकं सुसंकेतं मन्यते। अयं मेला, यः एशियायाः महानतमः पशुमेला इति ख्यातः, वर्षान्तरं उपेक्षायाः विह्वलतां अनुभूय तस्य पारम्परिकम् महत्त्वं क्षीयमानम् अभवत्।

मुख्यमन्त्रिणः अस्य भ्रमणेन विकासकार्यम् नवीनगत्या प्रवर्तिष्यते इति आशा जाताः। स्थानीया जनाः मन्यन्ते—यत् अस्य मेळस्य प्राचीनप्रतिष्ठां गौरवं च पुनः प्राप्तुं दृढा दीर्घकालिका कार्ययोजना आवश्यकाः।

मुख्यमन्त्रिणः व्यक्तिगत–रुच्या प्रेरितं दर्शनं दत्ते इति ज्ञायते, तथा इदानीं जनाः आशां कुर्वन्ति—यत् सोनपुर–मेलः केवलम् वार्षिक–आयोजनम् न भविष्यति, किन्तु बिहारस्य सांस्कृतिक–आर्थिक–परिचयस्य एकं सशक्तं केन्द्रं

भविष्यति।

---------------

हिन्दुस्थान समाचार