विशेषेण गहनतया च पुनरीक्षणम् अभियानम् : छत्तीसगढ़े 86 प्रतिशतं गणना प्रपत्राणां डिजिटाइजेशनकार्यं पूर्णम्
रायपुरम्, 30 नवंबरमासः (हि.स.)। छत्तीसगढराज्ये अर्हतातिथेः ०१ जनवरी २०२६ इत्यस्य कृते मतदातृसूचीनां विशेषगहनपुनरीक्षणकार्यस्य संचालनम् ०४ नवम्बर २०२५ तः अत्यन्तगम्भीरतया पारदर्शितया च प्रवर्तते। प्रान्तव्यापि बीएलओजनैः गृहे गृहे गत्वा पञ्जीकृतमतद
विशेषेण गहनतया च पुनरीक्षणम् अभियानम् : छत्तीसगढ़े 86 प्रतिशतं गणना प्रपत्राणां डिजिटाइजेशनकार्यं पूर्णम्


रायपुरम्, 30 नवंबरमासः (हि.स.)।

छत्तीसगढराज्ये अर्हतातिथेः ०१ जनवरी २०२६ इत्यस्य कृते मतदातृसूचीनां विशेषगहनपुनरीक्षणकार्यस्य संचालनम् ०४ नवम्बर २०२५ तः अत्यन्तगम्भीरतया पारदर्शितया च प्रवर्तते। प्रान्तव्यापि बीएलओजनैः गृहे गृहे गत्वा पञ्जीकृतमतदातॄणां गणनापत्राणां सङ्ग्रहणं डिजिटीकृतिकरणं च शीघ्रगत्या प्रचलति। २९ नवम्बरसायंकालपर्यन्तं प्रान्ते प्रायः एककोट्यां द्व्यशीतिलक्षाधिकानां गणनापत्राणां डिजिटीकृतिकरणं सम्पन्नम्, यत् समग्रपञ्जीकृतमतदातॄणां द्विकोट्यधिकद्वादशलक्षत्रिंशत्सहस्र सप्तत्रिंशत् संख्यानां प्रायेण षट्षष्टितमी प्रतिशताऽस्ति।

---------------

हिन्दुस्थान समाचार