भारते निर्वाचन-आयोगेन मतदाता-सूची–विशेष–गहन–पुनरीक्षण–कार्यक्रमस्य समयः सप्ताहेन वर्धितः
रायपुरम्, 30 नवंबरमासः (हि.स.)।भारत-निर्वाचन-आयोगेन 01 जनवरी 2026 इति अर्हता-तिथेः संदर्भे वर्तमानं द्वादश-राज्येषु/केन्द्र-शासित-प्रदेशेषु प्रवर्तमानस्य मतदाता-सूची–विशेष–गहन–पुनरीक्षणस्य (SIR) निर्धारिता: तिथयः एकेन सप्ताहेन वर्ध्य संशोधित-कार्यक
भारते निर्वाचन-आयोगेन मतदाता-सूची–विशेष–गहन–पुनरीक्षण–कार्यक्रमस्य समयः सप्ताहेन वर्धितः


रायपुरम्, 30 नवंबरमासः (हि.स.)।भारत-निर्वाचन-आयोगेन 01 जनवरी 2026 इति अर्हता-तिथेः संदर्भे वर्तमानं द्वादश-राज्येषु/केन्द्र-शासित-प्रदेशेषु प्रवर्तमानस्य मतदाता-सूची–विशेष–गहन–पुनरीक्षणस्य (SIR) निर्धारिता: तिथयः एकेन सप्ताहेन वर्ध्य संशोधित-कार्यक्रमः घोषितः।

विशेष–गहन–पुनरीक्षणस्य संशोधित-कार्यक्रमानुसारं गणना-अवधिः (एन्यूमरेशन-फॉर्म्) पूरणस्य अवधि— 04.11.2025 तः 11.12.2025 पर्यन्तम्।

मतदान-केंद्राणां युक्तियुक्तकरणम्/पुनर्व्यवस्थापनम्— 11.12.2025 पर्यन्तम्।

कण्ट्रोल्-टेबलस्य अद्यतनम् तथा प्रारूप- (ड्राफ्ट्-) सूचि-निर्माणम्— 12.12.2025 तः 15.12.2025 यावत्।

प्रारूप- (ड्राफ्ट्-) मतदाता-सूच्याः प्रकाशनम्— 16.12.2025।

दाव–आपत्तीनां प्रस्तुतीकरण-अवधिः— 16.12.2025 तः 15.01.2026 पर्यन्तम्।

नोटिस्-चरणम् (नोटिस्-निर्गमनम्, श्रवणम्, सत्यापनं च) — 16.12.2025 तः 07.02.2026 पर्यन्तम्।

मतदाता-सूचीनां स्वास्थ्य-मापदण्डानां परीक्षणम्— 10.02.2026 पर्यन्तम्।

मतदाता-सूच्याः अन्तिम-प्रकाशनम्— 14.02.2026 इति निर्धारितम्।

---------------

हिन्दुस्थान समाचार