काशी शब्दोत्सवस्य 2025 व्यवस्थादलम् आयोजक मंडलस्य जाता समीक्षा
वाराणसी, 30 नवंबरमासः (हि.स.)। काशी शब्दोत्सव 2025 इति कार्यक्रमस्य अनन्तरं रविवासरे लंका स्थिते अम्बेसडर् होटेल् मध्ये व्यवस्थासम्बद्धया टीम् सह आयोजकमण्डलेन समीक्षा-सभा आयोजिताभवत्। सभायां व्यवस्थासम्बद्धाः स्वेच्छासेवकाः स्वीयान् सुझावान् अ
काशी शब्दोत्सव 2025 समीक्षा बैठक


वाराणसी, 30 नवंबरमासः (हि.स.)।

काशी शब्दोत्सव 2025 इति कार्यक्रमस्य अनन्तरं रविवासरे लंका स्थिते अम्बेसडर् होटेल् मध्ये व्यवस्थासम्बद्धया टीम् सह आयोजकमण्डलेन समीक्षा-सभा आयोजिताभवत्। सभायां व्यवस्थासम्बद्धाः स्वेच्छासेवकाः स्वीयान् सुझावान् अवेदयन्, येषां कार्यक्रमसंयोजकः डॉ हरेंद्र राय स्वागतं कृतवान्।

काशी शब्दोत्सवस्य व्यवस्थायां नियोजितः शशांकः अतिथिस्वागतसम्बद्धं किञ्चिद् समस्या आसीत् इति प्रकाशयामास। तथैव व्यवस्थासम्बद्धः माधवः परिसरमध्ये कार्यक्रमस्य आयोजनं उत्तमम् इति अवदत्, विषयचयनं च प्रशंसनीयम् इति अभ्यधात्। किट्-वितरणं एकदिनपूर्वं करणीयम् इति सः आग्रहं कृतवान्। सांस्कृतिककार्यक्रमेषु युवभ्यः अवसरदानम् अपेक्षितम् इति अपि अवोचत्। मास्कोदलेन कृतं हनुमानचालीसापाठनं अत्यन्तं आनन्दमयं जातम् इति सर्वे अनुभवन्।

अस्मिन् अवसरे राष्ट्रियस्वयंसेवकसंघस्य सहक्षेत्रप्रचारप्रमुखः मनोजकान्तः, सहप्रान्तप्रचारप्रमुखः डॉ अम्बरीशरायः, काशीहिन्दुविश्वविद्यालयस्य जनसंपर्काधिकारी राजेशकुमारसिंहः, डॉ शैलेषमिश्रः, दिनेशपाठकः, आशीषआशुः, श्यामसिंहः, पतञ्जलिसंगठनस्य सदस्याः, काशीहिन्दुविश्वविद्यालयस्य विद्यार्थी–विद्यार्थिन्यः, सेवाज्ञसंस्थानस्य कार्यकर्तारः पदाधिकारी च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार