मनोवार्ता: प्रधानमंत्री जनान् काशी तमिल संगमाय आमंत्रितवान्
नव दिल्ली, 30 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदिनाम रविवासरे स्वस्य मासिकरेडियोकार्यक्रमस्य मन की बात इति प्रख्यातस्य आयोजनस्य अष्टविंशत्यधिकशततमं खण्डं संबोधयन् जनसमुदायं द्वितीयदिसम्बरदिनाङ्के नवघाटे भवितव्ये चतुर्थे काशीतमिलसङ्गमे सहभा
PM Modi Skyroot Campus Program


नव दिल्ली, 30 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदिनाम रविवासरे स्वस्य मासिकरेडियोकार्यक्रमस्य मन की बात इति प्रख्यातस्य आयोजनस्य अष्टविंशत्यधिकशततमं खण्डं संबोधयन् जनसमुदायं द्वितीयदिसम्बरदिनाङ्के नवघाटे भवितव्ये चतुर्थे काशीतमिलसङ्गमे सहभागीभवितुं आमन्त्रितवन्तः। तेन उक्तं यत् अयं सङ्गमः तमिळ्भाषायाः संस्कृतेः च अनुयायिनां कृते अत्यन्तं महत्त्वपूर्णं सदसि रूपेण प्रतिष्ठितः जातः।

प्रधानमन्त्री जी ट्वेन्टी शिखरसम्मेलनस्य अवसरम् अपि स्मरन् दक्षिणआफ्रीकादेशस्य राष्ट्रपतये तञ्जापुरजन्यया चोलकालकला आधारितया नटराजस्य काशीमूर्तिरीत्या दत्तं उपहारं निर्दिष्टवन्तः।

नवम्बरमासं सः अत्यन्तं प्रेरणादायकं मासं अभिधाय संविधानदिवसस्य, वन्देमातरम् गीतस्य शतपञ्चाशद्युत्सवस्य, अयोध्यायां राममन्दिरे धर्मध्वजारोहणस्य, कुरुक्षेत्रे पाञ्चजन्यस्मारकारोपणस्य, ह्यदराबादे विश्वस्य वृहत्तमस्य लीपइंजन एमआरओकेन्द्रस्य उद्घाटनस्य, नौसेनायां आय एन एस माहे इति नवयानस्य प्रवेशस्य, स्कायरूटनामककम्पन्या निर्मितस्य इन्फिनिटी कॅम्पस इत्यस्य च लोकार्पणस्य उल्लेखं कृतवन्तः।

तेन एव उद्घोषितं यत् भारतदेशेन 35 दशमलव 7 कोटि टन इत्येतत् अप्रतिमं खाद्यान्नोत्पादनम् अभिलब्धं, यत् दशवर्षपूर्वस्य तुलने 10 कोटि टन अधिकं जातम्।

कार्यक्रमे पुणेनगरस्थयुवजनानाम इसरोद्वारा आयोजितायां ड्रोनस्पर्धायां प्राप्तं कौशलम् अपि प्राङ्गणीकृतम्। ते मङ्गलग्रहसदृशेषु कृत्रिमपरिस्थितिषु ड्रोनयात्रां सफलतया कृतवन्तः इति सः अवदत्।

प्रधानमन्त्रिणा देशे मधुपालनसम्बद्धस्य उत्कर्षस्य अपि निरूपणं कृतम्।

विश्वव्यापि गीता ग्रन्थस्य वर्धमानसम्मानं प्रति ध्यानं दत्वा मन्त्री अवदन् यत् कुरुक्षेत्रे महाभारतअनुभवकेन्द्रे त्रिमितीयदृश्यप्रणाली तथा डिजिटलतन्त्रज्ञानस्य साहाय्येन कथानां सजीवावलोकनं शक्यम्। ब्रह्मसरोवरे आयोजिते अन्तरराष्ट्रीयगीतमहोत्सवे बहूनां राष्ट्राणां सहभागिता अभवत। सौदीअरेबदेशे प्रथमवारं सार्वजनिकमञ्चे गीता प्रस्तुता, यूरोपदेशेषु अपि विशेषगीतात्सवाः आयोजिताः।

प्रधानमन्त्री अवदन्—यद्भारतीयसंस्कृति: शान्तेः करुणायाश्च संदेशं वहति। तेन दक्षिणईज़रायलस्य मोशाव नेवातिम इति प्रदेशे जाम साहब स्मरणार्थं प्रकाशितायाः पत्रिकायाः अनावरणं निर्दिष्टम्। सः स्मारितवान् यत् द्वितीयविश्वयुद्धकाले नवानगरस्य महाराजेन दिग्विजयसिंहेन अनेकान् पोलिश यहूदीबालकान् आश्रयः प्रदत्तः आसीत्—मानवतेः अद्वितीयम् उदाहरणम्।

अन्ते सः अवदत् यत् देशस्य युवानः पेशेवराश्च प्राकृतिककृषेः कृते शीघ्रमेव आकृष्टाः भवन्ति, दक्षिणभारतप्रदेशेषु च एते प्रयासाः अत्यन्तं प्रशंसनीयाः दृश्यन्ते।

---------------

हिन्दुस्थान समाचार