गीता–जयंतीसम्बद्धेन २१-दिवसीय राजस्थान-गीता-महोत्सवस्य २०२५ शङ्खनादः
जयपुरम्, 30 नवंबरमासः (हि.स.)।कुरुक्षेत्रस्य गीता-ज्ञान-भूमौ प्रवर्तमानस्य दशमस्य २१-दिवसीयस्य अन्तर्राष्ट्रीय-गीता-महोत्सवस्य आदर्शेन राजस्थान-राज्येऽपि मोक्ष-एकादशी—गीता-जयन्त्योः अवसरयोः राजस्थान-गीता-महोत्सवः २०२५ नामकः भव्यः उत्सवः आयोजितः भवि
गीता जयंती से 21 दिवसीय ​राजस्थान गीता महोत्सव 2025 का शंखनाद


गीता जयंती से 21 दिवसीय ​राजस्थान गीता महोत्सव 2025 का शंखनाद


जयपुरम्, 30 नवंबरमासः (हि.स.)।कुरुक्षेत्रस्य गीता-ज्ञान-भूमौ प्रवर्तमानस्य दशमस्य २१-दिवसीयस्य अन्तर्राष्ट्रीय-गीता-महोत्सवस्य आदर्शेन राजस्थान-राज्येऽपि मोक्ष-एकादशी—गीता-जयन्त्योः अवसरयोः राजस्थान-गीता-महोत्सवः २०२५ नामकः भव्यः उत्सवः आयोजितः भविष्यति। अस्य महोत्सवस्य पोस्टर-विमोचनसमये उपमुख्यमन्त्रिणी दीया कुमारी महोदया अत्यन्तं हर्षं प्रकट्य उक्तवती यत्— “पूज्यः गीता-मनीषी ज्ञानानन्द-महाराजस्य प्रेरणया आयोज्यमानः एषः महोत्सवः सर्वेषां कल्याणाय भवति, तस्मात् सर्वैः अस्मिन् सम्मिलितव्यम्।”

जयपुरस्य प्राचीनात् गणेश-देवालयात् आयोजक-समितेः मुख्य-समन्वयकः योगाचार्यः मनीषः सूर्यवंशी, उपदेष्टा ज्योतिषाचार्यः अनुपमः जौली, समाजसेवी सांवरमल-जांगिड़ इत्यादयः पोस्टर-विमोचनं कृतवन्तः। तस्मात् पूर्वं गणेश-देवालयस्य महन्तः प्रदीप-औदिच्य-महाभागः महोत्सवस्य सफलतां सार्थकत्वं च प्रार्थयन् विशेष-पूजां कारितवान्।

योगाचार्यः मनीषः सूर्यवंशी अवोचत्— “राजस्थाने प्रथमवारं गीता-महोत्सवस्य आयोजनम् इति घोषणा २०२४ तमे वर्षे परमपूज्य-गुरुदेव-गीता-मनीषी-महामण्डलेश्वर-ज्ञानानन्द-जी-महाराजेन कुरुक्षेत्रे जातस्य अन्तर्राष्ट्रीय-गीता-महोत्सवस्य अवसरे कृतासीत्। तदनुसारं जयपुरे १८ गीतामय-योग-शिविराणि अपि आयोजितानि। अस्मिन्नेव वर्शे गुरुदेवस्य अनुग्रहात् जीओ गीता राजस्थान, राजस्थान-गीता-महोत्सव-समिति, सूर्यवंशम् ध्यान-योग-संस्थानम् च संयुक्तं नेतृत्वं गृहित्वा ‘हर घर गीता, हर दिन ध्यान’ इति विषयवस्तुनाऽभियानरूपेण महोत्सवम् आयोजितुं निश्चितम्। शीघ्रमेव महोत्सवसम्बद्धाः अनेकाः कार्यक्रमाः घोषयिष्यन्ते।''

तत्पश्चात् जीओ-गीता-राजस्थान-प्रतिनिधिमण्डलं—राज्य-समन्वयकः किशन-पाठकः, मुख्य-संयोजकः योगाचार्यः मनीषः सूर्यवंशी, जयपुर-समन्वयकः आनन्दः पोद्दारः, उपदेष्टारौ डी.पी.गुप्तः बसन्त-जैनः च—राजभवनं गत्वा राज्यपालं हरिभाऊ-बागडे-महाभागं साक्षात्कृतवन्तः। ते गीता-मनीषिना प्रसारितां श्रीमद्भगवद्गीतां समर्प्य वैश्विक-आव्हानस्य समर्थनं याचितवन्तः, राज्यपालेन च प्रसन्नतया अनुमोदनं दत्तम्।

राजस्थान-गीता-महोत्सवस्य शुभारम्भः गीता-जयंतीदिने १ दिसंबर, गीता-मनीषिना कृतस्य वैश्विक-आव्हानस्य—“एक-निमेषे सर्वैः सह गीता-पाठः”—अनुसारं भविष्यति। तस्मिन् अवसरि देशे विदेशे च यत्र कुत्र स्थिताः जनाः गीता-अध्यायस्य प्रथमश्लोकात् नवमाध्यायस्य २२तमश्लोकपर्यन्तं, तथा अन्त्यध्यायस्य अन्तिमश्लोकं उच्चरिष्यन्ति।

गुरुदेवं प्रति कृतज्ञतया जीओ गीता राजस्थान द्वारा जयपुरे, कोटे च विशेष-कार्यक्रमाः भविष्यन्ति। महोत्सव-परिप्रेक्ष्ये गीतामय-हवनम्, गीता-सम्भ्रम-समारोहः, रन फॉर श्रीमद्भगवद्गीता, गीता-संगोष्ठी, गीतामय-योग-शिविरम्, गीता-पोथी-कलश-यात्रा इत्यादयोऽपि प्रस्ताविताः।

अन्ते २१ दिसंबर अन्तर्राष्ट्रीय-ध्यान-दिवस इति अवसरि गुरु–शिष्य-परम्परानुसारं संत-समागमो महोत्सवस्य पूर्णाहुतिः भविष्यति।

महोत्सवस्य मुख्योद्देश्यः—

सर्वेषाम् आयुवर्गेषां सर्वेषां समुदायानां च प्रेरणां दातुम् यत् ते गृहेषु श्रीमद्भगवद्गीतां प्रतिष्ठाप्य नित्यं श्रद्धया अध्ययनं पूजनं ध्यानं च कुर्वन्तु तथा स्व-शारीरिक-मानसिक-आध्यात्मिक-विकासेन राष्ट्रस्य उन्नतौ योगदानं वहन्तु।

---------------

हिन्दुस्थान समाचार