वाइस एडमिरल संजय साधु युद्धपोतोत्पादनस्य अधिग्रहणस्य च नियंत्रकनियुक्तः, कार्यभारः स्वीकृतः
-वर्तमानस्य सीडब्ल्यूपीएंडए राजारामस्य स्वामीनाथन इत्यस्य 38वर्षीयसेवोत्तरं 30 नवंबर दिनांकेनिवृत्तः नव दिल्ली, 30 नवंबरमासः (हि.स.)। वाइस् एडमिरल् संजय साधुः युद्धपोतनिर्माणाधिग्रहणस्य नियंत्रकः नियुक्तः अस्ति। सः अस्मिन् पदे कार्यभारं स्वीकृतव
कार्यभार ग्रहण करते वाइस एडमिरल संजय साधु


-वर्तमानस्य सीडब्ल्यूपीएंडए राजारामस्य स्वामीनाथन इत्यस्य 38वर्षीयसेवोत्तरं 30 नवंबर दिनांकेनिवृत्तः

नव दिल्ली, 30 नवंबरमासः (हि.स.)। वाइस् एडमिरल् संजय साधुः युद्धपोतनिर्माणाधिग्रहणस्य नियंत्रकः नियुक्तः अस्ति। सः अस्मिन् पदे कार्यभारं स्वीकृतवान्। सः वाइस् एडमिरल् राजाराम स्वामीनाथनस्य स्थानम् आग्रहीतवान्, ये देशस्य अष्टात्रिंशद्वर्षपर्यन्तं विशिष्टसेवानन्तरं त्रिंशत् नवेम्बर् दिने निवृत्ताः। राजाराम स्वामीनाथनस्य कार्यकाले भारतीयनौसेनायां अष्ट नौकाः सन्निवेशिताः।भारतीयनौसेनायां १९८७ तमे वर्षे आयोगीकृतः वाइस् एडमिरल् संजय साधुः मेकानिकल् इंजिनियरिंग विषयेषु स्नातकोत्तरः तथा डिफेन्स् एण्ड् स्ट्राटेजिक् स्टडीज् विषयेषु एम् फिल् धारयति। सः एयरक्राफ्ट् कैरियर् आई एन एस् विराट् इत्यस्मिन् नानाविधेषु पदेषु तथा फ्रन्ट् लाइन् फ्रिगेट् आई एन एस् ब्रह्मपुत्रा आई एन एस् दूनागिरि च इयोः उपरि नियोजितः।

फ्लैग् रैंक् प्रमोशनात्पूर्वं सः नेवल् डॉक्यर्ड् मुम्बई मध्ये एडिशनल् जनरल् मेनेजर् प्रोडक्शन पदे, नेवल् शिप् रिपेयर् यार्ड् कारवार् मध्ये कमोडोर् सुपरिटेन्डन्ट् पदे, नौसेनामुख्यालये नवदिल्ली मध्ये प्रिन्सिपल् डाइरेक्टर् मरीन् इंजिनियरिंग पदे च कार्यं कृतवान्। एतत् पदं स्वीकरोति पूर्वं सः नयी दिल्ली मध्ये एड्वान्स्ड् टेक्नोलॉजी वेसेल् प्रोग्राम् इत्यस्य कार्यक्रमनिर्देशकस्य रूपेण अपि सेवानिरतः आसीत्।

नौसेनानुसारम् सः रूस् राष्ट्रे एयरक्राफ्ट् कैरियर् विक्रमादित्यस्य आधुनिकीकरणे अधिग्रहे च सम्मिलितः आसीत्। अस्यां परियोजनायां सः वार्षिप् ओवरसीइङ् टीम् सेवेरोडविंस्क् रूस् मध्ये वरिष्ठनौकायन्त्रकपर्यवेक्षकः डाइरेक्टर् एयरक्राफ्ट् कैरियर् प्रोजेक्ट्स् नवदिल्ली स्थिते नौसेनामुख्यालये प्रिन्सिपल् डाइरेक्टर् एयरक्राफ्ट् कैरियर् प्रोजेक्ट्स् इत्यादिषु पदेषु नियोजितः।

फ्लैग् रैंक् प्राप्तेः अनन्तरं सः एडिशनल् डाइरेक्टर् जनरल् वार्षिप् डिज़ाइन् ब्यूरो सबमरीन डिज़ाइन् ग्रुप्, चीफ् स्टाफ् अफिसर् टेक्निकल् ईस्टर्न् नेवल् कमाण्ड्, एडमिरल् सुपरिटेन्डन्ट् डॉक्यर्ड् विशाखापत्तनम् तथा चीफ् स्टाफ् अफिसर् टेक्निकल् वेस्टर्न् नेवल् कमाण्ड् इति विविधेषु वरिष्ठपदेषु कार्यं कृतवान्।

वाइस् एडमिरल् संजय साधोः एषः विशेषसम्मानः यत् सः भारतस्य पश्चिमपूर्वतटयोः स्थितयोः द्वयोः विशालयोः डॉक्यार्डयोः प्रमुखरूपेण कार्यं कृतवान् तथा वेस्टर्न् ईस्टर्न् नेवल् कमाण्ड् इत्ययोः टेक्निकल् चीफ् स्टाफ् अफिसर् पदम् अपि वहितवान्। सः गोवा नेवल् वार् कॉलेज् इत्यस्य छात्रः अपि आसीत्।

उत्कृष्टसेवायै तस्मै राष्ट्रपतिना अति विशिष्ट सेवा पदकः नौसेना पदकः च प्रदत्तः। स्वस्य अष्टात्रिंशदधिकवर्षपर्यन्तसेवाकाले तेन अनेकानि आवश्यकानि परिचालनीयानि कार्यपदस्थापनानि च सम्पन्नानि।

---------------------------

हिन्दुस्थान समाचार