वाराणसी रन फॉर केटीएस 4.0 : तमिलनाडुः काशी इत्यनयोः सांस्कृतिकैकतायाः संदेशम् आधृत्य अधावन् शतशो युवानः
वाराणसी, 30 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीजनपदे भवति काशी तमिल संगमम् इत्यस्य चतुर्थसंस्करणं प्रति जागरूकताकार्यक्रमाः निरन्तरं आयोज्यमानाः सन्ति। एतेषु एव क्रमेषु रविवासरे तमिलनाडु काशी च इयोः सांस्कृतिकैक्यस्य संदेशेन सह रन फॉर केटीएस ४
रन फॉर केटीएस 4.0’ में शामिल बीएचयू के छात्र


रन फॉर केटीएस 4.0’ में शामिल बीएचयू के छात्र


वाराणसी, 30 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीजनपदे भवति काशी तमिल संगमम् इत्यस्य चतुर्थसंस्करणं प्रति जागरूकताकार्यक्रमाः निरन्तरं आयोज्यमानाः सन्ति। एतेषु एव क्रमेषु रविवासरे तमिलनाडु काशी च इयोः सांस्कृतिकैक्यस्य संदेशेन सह रन फॉर केटीएस ४० इति नाम्ना दौडायाः आयोजनम् अभवत। अस्मिन् दौडक्रीडायां युवानां उत्साहः दर्शनार्हः आसीत्। काशीहिन्दुविश्वविद्यालयस्य कुलपति प्रो अजित कुमार चतुर्वेदी इत्यनेन मैराथन स्पर्धायाः हरितध्वजेन शुभारम्भः कृतः।

काशीहिन्दुविश्वविद्यालयस्य परिसर मध्ये अद्य प्रभाते समागताः विद्यार्थी नवीनम् उत्साहम् अदर्शयन्। प्रातः सप्त त्रिंशत वदने मालवीयभवनात् आरभ्य कुलपतिना प्रो चतुर्वेदिना रन फॉर केटीएस ४० इत्यस्य शुभारम्भः कृतः। अत्रतः आरब्धा एषा दौड रविदासद्वारपर्यन्तम् गतवती यया तमिलनाडु काशी च इयोः सांस्कृतिकैक्यस्य संदेशः प्रसारितः। युवानां जोषः उत्साहः च अवलोकनीयौ आस्ताम्। तमिलनाडु काशी च इयोः सांस्कृतिकसम्बन्धान् बलीकुर्वन्ति एते आयोजनेषु युवानां संयोजनम् राष्ट्रस्य विविधविरासत्सु च जागरूकता मुख्योद्देश्यः आसीत्।

शुभारम्भात्पूर्वं कुलपति प्रो चतुर्वेदी अवदत् यत् युवानां बहुलसंख्या दृष्ट्वा अस्माकम् अपि उत्साहः वर्धितः। अस्मिन् विश्वविद्यालये सर्वेषां राज्येषां जनाः वसन्ति। अस्मत् विश्वविद्यालयः काशी तमिल संगमम् चतुर्थं संस्करणं मनयति। अस्य माध्यमेन अस्मदीया प्राचीनसभ्यता आध्यात्मिकपरम्परा संगीतपरम्परा च अपि एकत्र संविलीयते।

कार्यक्रमस्य मुख्यसंयोजकः फिजिकल एजुकेशन विभागस्य कला संकायस्य च प्रो भुवनचन्द्र कपरी अवदत् यत् अस्य दौडस्य उद्देश्यः केवलं क्रीडायाः प्रोत्साहनम् न, किन्तु काशी तमिलनाडु च इयोः ऐतिहासिकसंबन्धान् नूतनपीढ्यै अवगतकर्तुम्। एतेषु आयोजनेषु युवानां ऊर्जा सकारात्मकदिशया प्रवर्तते राष्ट्रीयैक्यस्य संदेशः च दृढीभवति।

सहसंयोजकः असिस्टेंटडायरेक्टर फिजिकल एजुकेशन एंड स्पोर्ट्स रैकेट गेम्स डॉ राजीव कुमार सिंह अवदत् यत् अस्यां मैराथनस्पर्धायां बीएचयू विद्यार्थिभिः सह समीपस्थविद्यालयेषु समुदायेषु च वसन्तः अनेकाः युवकाः अपि सहभागित्वम् अकरोत्।

समग्रकार्यक्रमस्य समन्वयनकर्त्ता नोडलअधिकारी प्रो अंचल श्रीवास्तव अवदत् यत् काशी तमिल संगमम् बीएचयू विश्वविद्यालयस्य प्रमुखः सांस्कृतिकसेतुः अस्ति यः दक्षिणउत्तरभारतयोः प्राचीनसंबन्धानाम् अद्यतनरूपेण पुनर्जीवनं करोति। रन फॉर केटीएस ४० अपि अस्यै एव परम्परायै एकः महत्वपूर्णः प्रयासः यस्मिन् युवानां उत्साहपूर्णं सहभागित्वम् अस्य सफलतां संवर्धितवन्। दौडायाः आरम्भात्पूर्वं सर्वेषां प्रतिभागिनां प्रति कार्यक्रमस्य उद्देश्यान् सुरक्षा निर्देशान् मार्गविवरणं च सम्यक्

निवेदितम्।

---------------

हिन्दुस्थान समाचार