Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 4 नवंबरमासः (हि.स.)।भारतस्य राष्ट्रपतिः द्रौपदीमुर्मुः इत्यनेन मंगलवारस्य दिने प्रदेशे स्थिते विश्वप्रसिद्धे आध्यात्मिकस्थले केंचीधाम्नि बाबा-नीबकरौरीमहात्मनः दर्शनं कृतम्। तत्र सा पूजाऽर्चनां कृत्वा राष्ट्रस्य सुखशान्तिसमृद्धिजनकल्याणार्थं प्रार्थनामकरोत्।
द्रौपदीमुर्मुः देशस्य प्रथमा राष्ट्रपतिः या केंचीधामं गत्वा बाबा-नीबकरौरीमहात्मनः दर्शनं कृतवती। मन्दिरं प्राप्तायां तस्याः, मन्दिरप्रबन्धनसमित्याः सदस्यैः पुष्पगुच्छं समर्प्य स्वागतं अभिनन्दनं च कृतम्।
तस्मिन्नवसरे उत्तराखण्डराज्यस्य राज्यपालः लेफ्टिनेन्ट् जनरल् गुरमीतसिंहः (सेवानिवृत्तः) च मन्त्रिमण्डलस्य मन्त्री धनसिंहरावतः च उपस्थितौ आस्ताम्।
हिन्दुस्थान समाचार