जलसंकटः अस्ति चेत् वर्षाजलं रक्ष्यताम् — पर्यावरणविद् डॉ. प्रशान्तस्य मुख्यमन्त्रिणे पत्रम् लिखितम्
मुंबईनगरम् , 04 नवम्बरमास: (हि.स.)। गतसप्ताहेषु महारााष्ट्रे समग्रे भारते च अतिवृष्ट्या आप्लावनसमाचारैः अहं अतिव्यथितः अस्मि। आप्लावनं नाम केवलं विनाशाय भवति, जलप्रलयं जनयति, किन्तु पिपासितानां जनानां पिपासां न शमयति। मुंबईनगरनिवासी पर्यावरणशोधकः
If there is a water crisis save rain water


मुंबईनगरम् , 04 नवम्बरमास: (हि.स.)। गतसप्ताहेषु महारााष्ट्रे समग्रे भारते च अतिवृष्ट्या आप्लावनसमाचारैः अहं अतिव्यथितः अस्मि। आप्लावनं नाम केवलं विनाशाय भवति, जलप्रलयं जनयति, किन्तु पिपासितानां जनानां पिपासां न शमयति। मुंबईनगरनिवासी पर्यावरणशोधकः पत्रकारश्च डॉ. प्रशान्त रेखा रवीन्द्रसिनकरः राज्यस्य मुख्यमन्त्रिणं देवेंद्रफडणवीसं प्रति एकं गभीरं पत्रं लिखित्वा तस्य ध्यानम् आकर्षितवान् — यत् प्रतिवर्षं ग्रीष्मकाले ठाणे नगरे जलाभावे टङ्करैः जलवितरणं सर्वकारीय-निजीयसंस्थाभिः क्रियते, यत्र तु प्रत्येकं वर्षाकाले लक्ष-लक्षं लीटर-जलं नालिकाभ्यः वहमानं व्यर्थं गच्छति।

अतिवृष्ट्या आप्लावनेन चापि, अस्माकं महाराष्ट्रः तृषार्त एव। बहुषु स्थलेषु वर्षया आप्लावनं जायते, किन्तु तदेव जलं प्राणरक्षणाय यथोचितं न उपयोग्यते। नगरमार्गाः, नालिकाः, नद्यः च तद् जलं सागरे पर्यावर्तयन्ति; तस्मिन् सहस्रशः लीटर-जलं नष्टं भवति, यदा ग्रामेषु केचन जनाः तृषार्ताः तिष्ठन्ति।

शुष्यन्ति कूपाः, कृषकाः तेषां दिशि धावन्ति, एकघुटिकाजलाय बालकाः पाठशालां त्यक्त्वा गच्छन्ति, ग्रीष्मकाले पिपासया व्यथिताः पशवः दृश्यन्ते — एतेषां दृश्येषु हृदयम् स्पृश्यते, कर्तव्यबुद्धिः जाग्रति च। अस्माकं पूर्वजाः तु तडागान्, कूपान्, बन्धान् च निर्माय वर्षाजलं सञ्चितवन्तः। राजस्थानस्य चान्दबावली, तमिलनाडोदेशस्य कल्लनईबन्धश्च अस्मान् शिक्षयतः यत् वर्षाजलसङ्ग्रहेन जीवनरक्षणं भवति।

प्रस्तावितानि समाधानानि-

१. आप्लावनजलस्य पुनर्वितरणम्-

डॉ. प्रशान्तेन मुख्यमन्त्रिणं देवेंद्रफडणवीसं प्रति लिखिते पत्रे उक्तम् यत् ग्राम्य-अर्धनगरीयप्रदेशेषु उन्नतानां नदीनां नालिकानां च मार्गः परिवर्तनीयः यत्र जलाभावः, तत्र सुरङ्ग-नहर-निर्माणं करणीयम्। लघुबन्धैः, वाल्वप्रणालिभिः, तडागैः च आप्लावनजलसङ्ग्रहणं करणीयम्।

२. नगरीय-ग्राम्यजलसङ्ग्रहः -

विद्यालयेषु, चिकित्सालयेषु, निवाससमाजेषु, सर्वकारीभवनेषु च वर्षाजलसञ्चयनं अनिवार्यं करणीयम्।

कृषिक्षेत्रेषु तडागानां, पोखराणां, नालिकानां च शुद्धिः, भूमिजलस्तरवृद्धये जलसञ्चयः करणीयः।

३. सुविवेचितं जलप्रबन्धनम्-

उपग्रहैः ड्रोनयन्त्रैः च मापनं करणीयं यत्राप्लावनजलं, तत्र, तथा यत्र जलाभावः, तत्र जलस्रोतसां पुनर्वितरणम्।

४. जनजागरणम् :

बालकात् आरभ्य वृद्धपर्यन्तं सर्वेभ्यः जलसंरक्षण-वर्षाजलसञ्चयनस्य शिक्षा दातव्या। नागरिकेषु वर्षाजलरक्षणसंस्कृतिः आरोपणीयम्।

अस्माभिः मुख्यमन्त्रिणं प्रति भावनात्मकतया निवेदितं यत् जलस्य एकेका बिन्दुः सहस्रजीवनानां तुल्या। यदि अद्य एव आप्लावनजलस्य उचितसङ्ग्रहण-पुनर्विन्यासार्थं दृढानि पादानि स्थापयेम, तर्हि भविष्ये महाराष्ट्रस्य ग्रामः, नगरं, क्षेत्रं, गृहं च तृषार्तं न भविष्यति।

जलसंरक्षणं जीवनसंरक्षणमेव।

भवतः नेतृत्वे एषः कार्यक्रमः सफलतया प्रवर्तयितुम् अस्माभ्यं सम्पूर्णः सहयोगः दास्यते इति निश्चयः।

हिन्दुस्थान समाचार / अंशु गुप्ता