भारतम् शीघ्रमेव विश्वस्य तृतीया महती अर्थव्यवस्था भविष्यति - वित्तमन्त्री
नवदेहली, 04 नवंबरमासः (हि.स)।केंद्रीयवित्तमन्त्रिणी निर्मलासीतारमणमहाभागया मंगलवारदिने उक्तं यत् भारतः अधुना वैश्विकमञ्चे तीव्रगत्याऽभिवर्धमानया अर्थव्यवस्थारूपेण उदितः अस्ति। सा अवदत्—“भारतं शीघ्रमेव जगतः तृतीया महती अर्थव्यवस्था भविष्यति।” केंद्
दिल्ली स्कूल ऑफ इकोनॉमिक्स में छात्रों को संबोधित करते हुए सीतारमण


दिल्ली स्कूल ऑफ इकोनॉमिक्स में छात्रों को संबोधित करते हुए सीतारमण


दिल्ली स्कूल ऑफ इकोनॉमिक्स में छात्रों को संबोधित करते हुए सीतारमण


नवदेहली, 04 नवंबरमासः (हि.स)।केंद्रीयवित्तमन्त्रिणी निर्मलासीतारमणमहाभागया मंगलवारदिने उक्तं यत् भारतः अधुना वैश्विकमञ्चे तीव्रगत्याऽभिवर्धमानया अर्थव्यवस्थारूपेण उदितः अस्ति। सा अवदत्—“भारतं शीघ्रमेव जगतः तृतीया महती अर्थव्यवस्था भविष्यति।”

केंद्रीयवित्तमन्त्रिणी दिल्लीअर्थशास्त्रविद्यालये छात्रान् उद्दिश्य भाषमाणा एतद् उक्तवती।हीरकजयंतीसमापनव्याख्याने सा उक्तवती— “वयं तस्मिन् काले वर्तामहे यत्र भारतं नानाप्रमाणकेषु, विशेषतया आर्थिकेषु, शीघ्रगत्याऽग्रे गच्छति। अधुना देशः स्वस्य आर्थिकदृढतायाः कारणेन एव उच्चं स्थानं प्राप्नोति।”

तया उक्तं यत्— “निस्संशयं भारतं च तस्य जनसंख्या च, भारतस्य वैश्विकमानचित्रे स्थितिः च, रणनीतिदृष्ट्या महत्त्वपूर्णानि सन्ति। किन्तु अद्य भारतः स्वस्यान्तःस्थितया आर्थिकबलवत्ता एकत्रितः स्वपादयोः दृढतया तिष्ठति।”

सीतारमणमहाभागया उक्तं यत् भारतः शीघ्रमेव जगतः तृतीया महती अर्थव्यवस्था भविष्यति।

वित्तमन्त्री अनन्तरमवदत्— “अहं न ब्रवीमि यत् वयं अधुना विकसितदेशः अभवाम, यतः ‘विकसितभारतं 2047’ इत्यस्माकं लक्ष्यं पुरतः अस्ति। 2014 तमे वर्षे दशम्याः महत्याः अर्थव्यवस्थायाः पञ्चमीं, ततः शीघ्रं चतुर्थीं, सम्भवतः शीघ्रमेव तृतीयां महतीं अर्थव्यवस्थां प्रति यावत् अस्माकं शीघ्रगतिरेव अस्मान् विशेषान् करोति।”

सा अवदत्— “प्रायः 2.5 कोटि जनाः बहुआयामीदारिद्र्यात् उद्धृताः भवन्ति।” तया भारतकेन्द्रितं अनुसंधानं नीतिसम्बद्धं च संलग्नतां बलेन दृढीकर्तुं, च उदीयमानार्थव्यवस्थासु अनुकूलान् आदर्शान् विकर्तुं च आवश्यकतां निर्दिष्टवती।

सीतारमणमहाभागया अपि उक्तं यत् सीमा शुल्कविधानपरिष्कारे महत्त्वपूर्णाः प्रयत्नाः प्रवर्तन्ते।तया विश्वासः व्यक्तः यत् सर्वकारः वर्तमानवित्तवर्षे 2025–26 तमे 4.4 प्रतिशतं राजकोषीयघाटं लक्ष्यम् प्राप्तुं सफलता अवश्यं प्राप्स्यति। अस्मिन् अवसरे दिल्लीविश्वविद्यालयस्य कुलपतिः प्रोफेसर् योगेशसिंहः, च दिल्लीअर्थशास्त्रविद्यालयस्य निर्देशकः प्रोफेसर् रामसिंहः अपि उपस्थितौ आस्ताम्।केंद्रसर्वकारेण वर्तमानवित्तवर्षे 2025–26 तमे देशस्य सकलघरेलूपादानस्य 4.4 प्रतिशतं, यत् 15.69 लक्षकोटिरूप्यकाणि भवति, एतावत् राजकोषीयघाटस्य अनुमानं कृतम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता