Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 04 नवंबरमासः (हि.स.)।केरल-एक्सप्रेसनामकयानमध्ये युवत्याः चलतिगाड्यात् अपसृत्य पतनस्य घटनेन सम्बन्ध्य कांग्रेसपक्षस्य महासचिवः के. सी. वेणुगोपालः रेलमन्त्रिणं अश्विनी वैष्णवं केरलराज्यस्य मुख्यमन्त्रिणं च उद्दिश्य पत्रं लिखित्वा रेलयानयोः महिलानां सुरक्षा-संविधानं सुदृढीकर्तुं दोषिनां च प्रति कठोरां कार्यवाहीं कर्तुं प्रार्थितवान्।
रेलमन्त्रिणं प्रति लिखिते पत्रे वेणुगोपालेन उक्तं यत् वर्कलानिकटे मद्यपः कश्चन पुरुषः उन्नविंशतिवर्षीयां युवतिं चलत्यां गाड्यां अपसृत्य पतितवतीं कृतवान्, सा च गंभीरतया आहताभवत्। तस्य सहचरीं अपि सः अपसृत्य पतनं कर्तुं प्रयत्नं कृतवान्, किन्तु सा रक्षां प्राप्तवती।
तेन उक्तं यत् महिलानां सुरक्षा-निमित्तं दृढानि उपायानि अवश्यं कर्तव्यानि। कांग्रेसनेता रेलमन्त्रालयं प्रति प्रार्थितवान् यत् यानस्थानेषु च रेलयानानां च अन्तरालेषु सुरक्षारक्षकाणां संख्या वर्ध्यताम्, महिलाभ्यः आरक्षितयानकक्षाणां काठिन्येन निरीक्षणं क्रियताम्, रेलस्य सुरक्षा-संविधानस्य च स्वतंत्रं निरीक्षणम् (ऑडिट्) अपि क्रियताम्।
तथैव तेन उक्तं यत् २०२३-२४ तमे वर्षेभ्यः २०२४-२५ तमवधौ महिलासम्बद्धाः शिकायताः चतुःषष्टिशतप्रतिशतं वर्धिताः, यः तथ्यः अतिशयचिन्ताजनकः अस्ति।
अपरं वेणुगोपालः केरलराज्यस्य मुख्यमन्त्रिणं प्रति अपि पत्रं लिखित्वा अस्याः घटनेः निष्पक्षं अनुसन्धानं कर्तुं पीडितायै शीघ्रं न्यायं दातुं च निवेदनं कृतवान्। तेन उक्तं यत् एषा आक्रमण-घटना राज्ये महिलानां सुरक्षा-व्यवस्थायाः विषये गम्भीरं प्रश्नं उत्थापयति।
अन्ते तेन मुख्यमन्त्रिणं प्रति आग्रहः कृतः यत् विशेष-अनुसन्धान-दलम् गठ्यताम्, दोषिनः च कठोरं दण्डं प्राप्नुयुः, यथा भविष्ये एतादृशीनां घटनानां पुनरावृत्तिः न भवेत्।
---------------
हिन्दुस्थान समाचार