मध्यप्रदेशे मतदाता-सूच्याः विशेष-पुनरीक्षण-कार्यक्रमे अद्य आरभ्य बी.एल्.ओ.गणाः गृहात् गृहं सम्पर्कं करिष्यन्ति
भोपालम्, ४ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य सर्वेषु जनपदेषु मतदाता-सूच्याः विशेष-गहन-पुनरीक्षण-कार्यक्रमः २०२५ इत्यस्य अन्तर्गते भारते निर्वाचनायोगेन निर्दिष्ट-कार्यक्रमानुसारं अद्य मङ्गलेवासरे आरभ्य मतदानकेंद्र-स्तरीय-अधिकारीणः (बी.एल्.ओ.) गृहे ग
मतदाता सूची के विशेष पुनरीक्षण कार्यक्रम


भोपालम्, ४ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य सर्वेषु जनपदेषु मतदाता-सूच्याः विशेष-गहन-पुनरीक्षण-कार्यक्रमः २०२५ इत्यस्य अन्तर्गते भारते निर्वाचनायोगेन निर्दिष्ट-कार्यक्रमानुसारं अद्य मङ्गलेवासरे आरभ्य मतदानकेंद्र-स्तरीय-अधिकारीणः (बी.एल्.ओ.) गृहे गृहे गत्वा मतदातृभ्यः सह सम्पर्कं करिष्यन्ति।

एते समये ते प्रत्येकं परिवारं प्रति गणना-प्रपत्रं वितरिष्यन्ति आवश्यकं च विवरणं सङ्ग्रहीष्यन्ति।

कार्यक्रमस्य सुचारु-परिचालनार्थं सर्वेषां विधानसभा-क्षेत्राणां बी.एल्.ओ.गणः विधानसभा-वार-प्रशिक्षणं प्राप्तवन्तः।

प्रशिक्षणे अधिकारीणां प्रति मतदाता-सूची-संशोधन-संबद्धानि निर्देशाः, प्रपत्रपूर्तेः विधिः, विशेषतया च नवीन-मतदाता-पंजीकरणं तथा स्थानान्तरण-प्रक्रिया इत्येतयोः विषये ज्ञानं दत्तम्।

अस्य अभियानस्य लक्ष्यं प्रत्येकस्य पात्रस्य मतदातुः नाम मतदाता-सूच्यां सुनिश्चितं कर्तुम् अस्ति। प्रदेशस्य मुख्यनिर्वाचनाधिकारी सञ्जीव-झा उक्तवान् यत् भारते निर्वाचनायोगेन मध्यप्रदेशे विशेषगहनपुनरीक्षणस्य आरम्भः क्रियते। अस्याः प्रक्रियायाः अन्तर्गतं अद्य आरभ्य सर्वेषु विधानसभा-क्षेत्रेषु गृहात् गृहं गत्वा मतदाता-सूच्याः सत्यापनं भविष्यति।

एषु दिवसेषु प्रत्येकः बी.एल्.ओ. मतदातृणां निवासेषु गत्वा तेषां नाम, पता, आयुः, अन्यानि विवरणानि च भौतिकरूपेण परीक्ष्य द्रक्ष्यति।

निर्वाचनायोगेन सर्वेभ्यः नागरिकेभ्यः अस्मिन् कार्ये सक्रियभागीदारीं पूर्णं च सहयोगं कर्तुं अनुरोधः कृतः।

मुख्यनिर्वाचनाधिकारी झा महोदयः नागरिकान् प्रति आह्वानं कृतवन्तः यत् “यदा बी.एल्.ओ. भवन्तः स्वगृहं आगच्छति, तदा तस्मै आवश्यकं सहयोगं ददात।”

बी.एल्.ओ.गणः पूर्वमेव मतदाता-सूची २०२५ इत्यस्य विवरणयुक्तं पूर्व-मुद्रितं गणना-प्रपत्रं गृहीत्वा आगमिष्यन्ति। नागरिकैः तत्र लिखितं विवरणं यथावत् परीक्ष्य पुष्टि कर्तव्या। येषां परिवारेषु नवीनः सदस्यः १ जनवरी २०२६ पर्यन्तं अष्टादशवर्षीयः जातः, तेषां नाम प्रविष्ट्यर्थं बी.एल्.ओ.गणः प्रपत्रं-६ प्रदानं करिष्यन्ति।

यदि कश्चन सदस्यः निधनं गतवान् वा अन्यत्र स्थानान्तरितः वा, तस्य विवरणं अपि दातव्यम् यथा सूचीतः नाम विलोप्यते। एतत् ज्ञातव्यं यत् गृहसर्वेक्षणकाले बी.एल्.ओ.गणः कान्यपि वैधानिकप्रपत्राणि न सङ्ग्रहीष्यन्ति।

यदा तु प्रविष्टिः पूर्ववैधानिकप्रपत्रैः न सुसंगता दृश्यते, तदा निर्वाचन-पंजीकरण-अधिकारी पृथक् सूचयित्वा आवश्यकवैधानिकप्रपत्रान् याचिष्यते। बी.एल्.ओ.गणः आयोगेन अधिकृत-पहचान-पत्रम् धारयिष्यन्ति। नागरिकैः तद् दृष्ट्वा एव विवरणं दातव्यम्।

मुख्यनिर्वाचनाधिकारी उक्तवान् यत् गृहसत्यापनप्रक्रिया ४ दिसम्बरपर्यन्तं भविष्यति। अनन्तरं 9 दिसम्बर २०२५ तिथौ प्रारूप-मतदाता-सूची प्रकाशिताः भविष्यति।नागरिकैः ९ दिसम्बर २०२५ तः ८ जनवरी २०२६ पर्यन्तं नाम-संबंधिनः अभ्यर्थना-आपत्तयः दातुं शक्याः। ७ फरवरी २०२६ तिथौ अन्तिम-मतदाता-सूची प्रकाशिता भविष्यति।

निर्वाचनायोगेन सर्वेभ्यः नागरिकेभ्यः पुनरपि निवेदनं कृतं यत् — “यदा बी.एल्.ओ. भवन्तः स्वगृहं आगच्छन्ति, तदा यथार्थं अद्यतनं च विवरणं अवश्यं प्रदत्तव्यम्।” एषः अभियानः मतदाता-सूच्याः शुद्धता, पारदर्शिता, समावेशिता च सुनिश्चितुं महत्त्वपूर्णं पद्धतिपूर्वकं चरणम् अस्ति।नागरिकानां सहयोगेन एतत् सुनिश्चितं भविष्यति यत् प्रत्येकः पात्रः मतदाता सूचीं प्रविष्टः स्यात्, अपात्रः च कोऽपि न भवेत्।

हिन्दुस्थान समाचार / ANSHU GUPTA